कृताभिशेकां हुतजातवेदसं
त्वगुत्तरासङ्गवतीमधीतिनीम् ।
दिग्दृक्षवस्ताम् ऋषयोऽभ्युपागम-
न्न धर्मवृद्धेषु वयः समीक्ष्यते ॥

अन्वयः AI कृत-अभिशेकाम्, हुत-जातवेदसम्, त्वक्-उत्तरासङ्गवतीम्, अधीतिनीम् ताम् दिदृक्षवः ऋषयः अभ्युपागमन् । धर्म-वृद्धेषु वयः न समीक्ष्यते ।
सञ्जीविनीटीका (मल्लिनाथः) कृतेति । कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् । कृतहोमामित्यर्थः । त्वया वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगृत्तरासङ्गवतीम् । अधीतमस्या अस्तीत्यधीतिनीं स्तुतिपाठादि कुर्वतीम् । `इष्टादिभ्यश्च` (अष्टाध्यायी ५.२.८८ ) इतीनिप्रत्ययः । तां देवीं दिदृक्षवो द्रष्टुमिच्छव ऋषयो मुनयोऽभ्युपागमन्समुपागताः । न चात्र कनिष्ठसेवादोष इत्याह-धर्मवृद्धेषु वयो न समीक्ष्यते न प्रमाणीक्रियते । सति धर्मज्यैष्ठ्ये वयोज्यैष्ठ्यं न प्रयोजकमित्यर्थः । तथा च मनुः- `न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥` इति
Summary AI Sages, desiring to see her, came to visit her—she who had performed her ablutions, offered oblations to the fire, wore an upper garment of bark, and was engaged in study. Among those advanced in righteousness, age is not considered.
सारांश AI स्नान, हवन और शास्त्र अध्ययन में लीन पार्वती को देखने के लिए ऋषिगण आने लगे। धर्म के मार्ग पर चलने वालों की श्रेष्ठता में आयु नहीं, उनके कर्म देखे जाते हैं।
पदच्छेदः AI
कृताभिशेकाम्कृत (√कृ+क्त)अभिषेक (२.१) her who had performed ablutions
हुतजातवेदसम्हुत (√हु+क्त)जातवेदस् (२.१) her who had offered to the fire
त्वगुत्तरासङ्गवतीम्त्वच्–उत्तरासङ्गवती (२.१) her wearing an upper garment of bark
अधीतिनीम्अधीतिनी (२.१) her engaged in study
दिदृक्षवःदिदृक्षु (√दृश्+सन्+उ, १.३) desiring to see
ताम्तद् (२.१) her
ऋषयःऋषि (१.३) sages
अभ्युपागमन्अभ्युपागमन् (अभि+उप+आ√गम् कर्तरि लङ् (परस्मै.) प्र.पु. बहु.) approached
not
धर्मवृद्धेषुधर्मवृद्ध (७.३) among those advanced in righteousness
वयःवयस् (१.१) age
समीक्ष्यतेसमीक्ष्यते (सम्√ईक्ष् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is considered
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
कृ ता भि शे कां हु जा वे सं
त्व गु त्त रा ङ्ग ती धी ति नीम्
दि ग्दृ क्ष स्ता मृ यो ऽभ्यु पा
न्न र्म वृ द्धे षु यः मी क्ष्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.