अरण्यबीजाञ्जलिदानलालिता-
स्तथा च तस्यां हरिणा विशश्वसुः ।
यथा तदीयैर्नयनैः कुतूहला-
त्पुरः सखीनाममिमीत लोचने ॥

अन्वयः AI अरण्य-बीज-अञ्जलि-दान-लालिताः हरिणाः तस्याम् तथा विशश्वसुः च, यथा सा कुतूहलात् सखीनाम् पुरः तदीयैः नयनैः स्वकीये लोचने अमिमीत ।
सञ्जीविनीटीका (मल्लिनाथः) अरण्येति ॥ अरण्यबीजानां नीवारादीनामञ्जलयस्तेषां दानेन लालिता हरिणाश्च तस्यां देव्यां तथा विशश्वसुर्विस्रम्भं जग्मुः `समौ विस्रम्भविश्वासौ` इत्यमरः (अमरकोशः २.८.२३ ) । यथा कुतूहलादौत्सुक्यात्तदीयैर्हरिण संबन्धिभिर्नयनैर्नेत्रैः । करणैः । स्वकीये लोचने सखीनां पुरः पुरतः अनेन तेषां संबन्धसहत्वमुक्तम् । अमिमीत । अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः । केचित्तु सा पार्वती तदीयैर्नेत्रैः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वात्मन इत्याहुः । `माङ् माने` इत्यस्माद्धातोर्लङ् । इयमेव खलु विश्वासस्य परा काष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः
Summary AI The deer, cherished by handfuls of wild grain offered by her, trusted her so completely that, out of curiosity and in front of her friends, she would measure her own eyes against theirs.
सारांश AI जंगली हिरण उनके हाथों से अनाज खाकर उन पर इतना विश्वास करने लगे कि पार्वती कौतुकवश सखियों के सामने अपनी आँखों की उनसे तुलना करने लगीं।
पदच्छेदः AI
अरण्यबीजाञ्जलिदानलालिताःअरण्यबीजअञ्जलिदानलालित (√लल्+णिच्+क्त, १.३) cherished by handfuls of wild grain offered
तथातथा so
and
तस्याम्तद् (७.१) in her
हरिणाःहरिण (१.३) the deer
विशश्वसुःविशश्वसुः (वि√श्वस् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) trusted
यथायथा that
तदीयैःतदीय (३.३) with their
नयनैःनयन (३.३) eyes
कुतूहलात्कुतूहल (५.१) out of curiosity
पुरःपुरस् in front of
सखीनाम्सखी (६.३) her friends
अमिमीतअमिमीत (√मा कर्तरि लङ् (आत्मने.) प्र.पु. एक.) she measured
लोचनेलोचन (२.२) her (own) two eyes
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ण्य बी जा ञ्ज लि दा ला लि ता
स्त था स्यां रि णा वि श्व सुः
था दी यै र्न नैः कु तू ला
त्पु रः खी ना मि मी लो ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.