पुनर्ग्रहीतुं नियमस्थया तया
द्वयेऽपि निक्षेप इवार्पितम्द्वयम् ।
लतासु तन्वीषु विलासचेष्टितं
विलोलदृष्टं हरिणाङ्गनासु च ॥

अन्वयः AI नियमस्थया तया पुनः ग्रहीतुम्, विलास-चेष्टितम् तन्वीषु लतासु, विलोल-दृष्टम् हरिण-अङ्गनासु च, इति द्वयम् अपि द्वये निक्षेपः इव अर्पितम् ।
सञ्जीविनीटीका (मल्लिनाथः) पुनरिति ॥ नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनर्ग्रहीतुं निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु । क्वचित् । `द्वयीषु` इति प्रामादिकः पाठः । कुत्र द्वये किं द्वयमर्पितमित्याह-तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु विलासदृष्टं चञ्चलावलोकितं च व्रतस्थायां तस्यां तयोरदर्शनाल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः
Summary AI While observing her vows, she deposited two things as if for safekeeping, to be taken back later: her graceful movements with the slender creepers, and her playful glances with the female deer.
सारांश AI नियमपूर्वक तप करते हुए उन्होंने अपनी विलासपूर्ण चेष्टाओं को लताओं में और अपनी चंचल दृष्टि को हिरणियों में धरोहर के रूप में रख दिया।
पदच्छेदः AI
पुनःपुनर् again
ग्रहीतुम्ग्रहीतुम् (√ग्रह्+तुमुन्) to take back
नियमस्थयानियमस्था (३.१) by her who was observing vows
तयातद् (३.१) by her
द्वयेद्वय (७.१) in the two
अपिअपि also
निक्षेपःनिक्षेप (१.१) a deposit
इवइव as if
अर्पितम्अर्पित (√ऋ+णिच्+क्त, १.१) was deposited
द्वयम्द्वय (१.१) the pair
लतासुलता (७.३) in the creepers
तन्वीषुतन्वी (७.३) slender
विलासचेष्टितम्विलासचेष्टित (√चेष्ट्+क्त, १.१) graceful movements
विलोलेदृष्टम्विलोलदृष्ट (√दृश्+क्त, १.१) playful glances
हरिणाङ्गनासुहरिणअङ्गना (७.३) in the female deer
and
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पु र्ग्र ही तुं नि स्थ या या
द्व ये ऽपि नि क्षे वा र्पि म्द्व यम्
ता सु न्वी षु वि ला चे ष्टि तं
वि लो दृ ष्टं रि णा ङ्ग ना सु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.