Loading data... On slow networks this could take a few minutes.
100%

हृदये वससीति मत्प्रियं
यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं
त्वमनङ्गः कथमक्षता रतिः ॥

अन्वयः AI "हृदये वससि" इति यत् मत्-प्रियम् अवोचः, तत् कैतवम् अवैमि। चेत् इदम् उपचार-पदम् न, तर्हि त्वम् अनङ्गः जातः, अहम् रतिः कथम् अक्षता अस्मि?
सञ्जीविनीटीका (मल्लिनाथः) हृदय इति । हृदये वससीति स्मरवाक्यानुवादः । इत्येवं रुपं मत्प्रियं यदवोच उक्तवानसि । ब्रञो लुङि `वच उम्` (अष्टाध्यायी ७.४.२० ) इत्युमागमः । तत्कैतवमवैमि मिथ्येति मन्ये । इदं वचनमुपचापरपदं परस्य रञ्जनार्थं यदसत्यभाषणं स उपचारस्तस्य पदं स्थानम् । कैतवस्थानमिति यावत् । न चेत्त्वमनङ्गोऽशरीरः । कथं रतिरक्षताऽविनष्टा । आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः
Summary AI "That loving phrase you used to say, 'You dwell in my heart,' I now know was a deception. If it were not just a figure of speech, how could you be bodiless while I, Rati (love/attachment), remain unharmed?"
सारांश AI तुम कहते थे कि मैं तुम्हारे हृदय में रहती हूँ, पर अब समझी कि वह केवल शिष्टाचार था। यदि मैं हृदय में होती, तो तुम्हारे भस्म होने पर मैं जीवित कैसे बचती?
पदच्छेदः AI
हृदयेहृदय (७.१) in the heart
वससिवससि (√वस् कर्तरि लट् (परस्मै.) म.पु. एक.) you dwell
इतिइति thus
मत्प्रियम्मद्प्रिय (२.१) as a loving thing to me
यत्यद् (२.१) which
अवोचःअवोचः (√वच् कर्तरि लङ् (परस्मै.) म.पु. एक.) you said
तत्तद् (२.१) that
अवैमिअवैमि (अव√इ कर्तरि लट् (परस्मै.) उ.पु. एक.) I know
कैतवम्कैतव (२.१) to be a deception
उपचारपदम्उपचारपद (१.१) a figure of speech
not
चेत्चेद् if
इदम्इदम् (१.१) this
त्वम्युष्मद् (१.१) you
अनङ्गःअनङ्ग (१.१) are bodiless
कथम्कथम् how
अक्षताअक्षत (नञ्√क्ष+क्त, १.१) unharmed
रतिःरति (१.१) am I, Rati
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
हृ ये सी ति त्प्रि यं
वो स्त वै मि कै वम्
चा दं चे दि दं
त्व ङ्गः क्ष ता तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.