परलोकनवप्रवासिनः
प्रतिपत्स्ये पदवीमहं तव ।
विधिना जन एष वञ्चित-
स्त्वदधीनं खलु देहिनां सुखम् ॥

अन्वयः AI अहम् परलोक-नव-प्रवासिनः तव पदवीम् प्रतिपत्स्ये। देहिनाम् सुखम् खलु त्वद्-अधीनम् अस्ति, अतः एषः जनः विधिना वञ्चितः।
सञ्जीविनीटीका (मल्लिनाथः) परलोकेति । परलोकं प्रति नवप्रवासिनोऽचिरप्रोषितस्य । अनेनानुगमनकालानतिपातः सूच्यते । तव पदवीं मार्गं प्रतिपत्स्ये । त्वामनुगमिष्यामीत्यर्थः । अतो मे नास्ति विचार इति भावः । किंतु विधिना दैवेनैष जनो लोको वञ्चितः प्रतारितः । देहिनां सुखं त्वदधीनं त्वय्यधीनं खलु । अधिशब्दस्य शौण्डादिकत्वात् `सप्तमी शौण्डैः` (अष्टाध्यायी २.१.४० ) इति समासः । `अध्युत्तरपदात्` इति खप्रत्ययः । एवमन्यत्रापि सुखप्रदाभावे कुतः सुखमिति भावः
Summary AI "I shall follow the path of you, who are now a new traveler to the other world. The happiness of embodied beings truly depends on you; therefore, this person (I) has been cheated by fate."
सारांश AI मैं भी परलोक के मार्ग पर तुम्हारे पीछे आऊँगी। भाग्य ने सबको ठगा है, क्योंकि प्राणियों का सारा सुख और आनंद केवल तुम्हारे ही अधीन था।
पदच्छेदः AI
परलोकनवप्रवासिनःपरलोकनवप्रवासिन् (६.१) of the new traveler to the other world
प्रतिपत्स्येप्रतिपत्स्ये (प्रति√पद् कर्तरि लृट् (आत्मने.) उ.पु. एक.) I shall follow
पदवीम्पदवी (२.१) the path
अहम्अस्मद् (१.१) I
तवयुष्मद् (६.१) your
विधिनाविधि (३.१) by fate
जनःजन (१.१) person
एषःएतद् (१.१) this
वञ्चितःवञ्चित (√वञ्च्+क्त, १.१) has been cheated
त्वदधीनम्त्वद्अधीन (१.१) dependent on you
खलुखलु truly
देहिनाम्देहिन् (६.३) of embodied beings
सुखम्सुख (१.१) the happiness
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
लो प्र वा सि नः
प्र ति त्स्ये वी हं
वि धि ना ञ्चि
स्त्व धी नं लु दे हि नां सु खम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.