Loading data... On slow networks this could take a few minutes.
100%

उपमानमभूद्विलासिनां
करणं यत्तव कान्तिमत्तया ।
तदिदं गतमीदृशीं दशां
न विदीर्ये कठिनाः खलु स्त्रियः ॥

अन्वयः AI हे प्रिय, तव यत् वपुः कान्तिमत्तया विलासिनाम् उपमानम् करणम् अभूत्, तत् इदम् ईदृशीम् दशाम् गतम्। अहम् न विदीर्ये। स्त्रियः खलु कठिनाः सन्ति।
सञ्जीविनीटीका (मल्लिनाथः) उपेति । तव यत्करणं गात्रम् । `करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि` इत्यमरः (अमरकोशः ३.३.६१ ) । कान्तिमत्तया सौन्दर्येण हेतुना विलसनशीलानाम् । `वौ कषलसे-` त्यादिना घिनुण्प्रत्ययः । उपमीयते येन तदुपमानमभूत् । तत्करणमिदमीदृशीं दशामवस्थां गतम् । भस्मीभूतमित्यर्थः । तथापि न विदीर्ये न विदीर्णा भवामि । कर्तरि लट् । तथाहि । स्त्रियः कठिनाः खलु । कठिनत्वादविदीर्यमाणत्वमित्यर्थः । कारणात्कार्यसमर्थनरुपोऽर्थान्तरन्यासः । `धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता । स्मितपूर्वं तथालापो विलास इति कीर्तितः ॥` इति
Summary AI "That body of yours, which by its beauty was the standard of comparison for lovers, has come to this state. Yet I do not shatter. Truly, women are hard-hearted."
सारांश AI जो शरीर सुंदरता का उपमान था, उसकी ऐसी दुर्गति देखकर भी मेरा हृदय विदीर्ण नहीं हो रहा; सचमुच स्त्रियाँ स्वभाव से अत्यंत कठोर हृदय वाली होती हैं।
पदच्छेदः AI
उपमानम्उपमान (१.१) the standard of comparison
अभूत्अभूत् (√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) was
विलासिनाम्विलासिन् (६.३) for lovers
करणम्करण (१.१) the instrument
यत्यद् (१.१) which
तवयुष्मद् (६.१) your
कान्तिमत्तयाकान्तिमत् (३.१) by its beauty
तत्तद् (१.१) that
इदम्इदम् (१.१) this (body)
गतम्गत (√गम्+क्त, १.१) has reached
ईदृशीम्ईदृशी (२.१) such
दशाम्दशा (२.१) a state
not
विदीर्येविदीर्ये (वि√दृ भावकर्मणोः लट् (आत्मने.) उ.पु. एक.) am I shattered
कठिनाःकठिन (१.३) hard-hearted
खलुखलु truly
स्त्रियःस्त्री (१.३) women
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
मा भू द्वि ला सि नां
णं त्त का न्ति त्त या
दि दं मी दृ शीं शां
वि दी र्ये ठि नाः लु स्त्रि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.