Loading data... On slow networks this could take a few minutes.
100%

इति चाह स धर्मयाचितः
स्मरशापावधिदां सरस्वतीम् ।
अशनेरमृतस्य चोभयो-
र्वशिनश्चाम्बुधराश्च योनयः ॥

अन्वयः AI इति च सः धर्म-याचितः स्मर-शाप-अवधि-दाम् सरस्वतीम् आह। हि अशनेः अमृतस्य च उभयोः वशिनः च अम्बुधराः च योनयः (भवन्ति)।
सञ्जीविनीटीका (मल्लिनाथः) परिणेष्यतीति ॥ इतीति च । धर्मेण धर्माख्यप्रजापतिना याचितः प्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वतीं परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तनन्दः सन् । स्मरं कामं स्वेन वपुषा नियोजयिष्यति । इत्येवं स्मरशापस्यावधिदामवसानदायिनीं सरस्वती वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाश्चाम्बुधराश्चाशनेरमृतस्य चेत्युभयोर्योनयः प्रभवः वशिपक्षेऽशन्यमृतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताग्न्युदकपरौ । युग्मकम् ॥ ४.४२ - ४३ ॥
Summary AI The voice continued: "Thus spoke Brahma, when entreated by Dharma, setting a limit to Kama's curse. For the powerful are the source of both the thunderbolt and nectar, just as clouds are the source of both hail and rain."
सारांश AI धर्म की प्रार्थना पर शिव ने कामदेव के शाप की अवधि बताने वाली यह वाणी कही; जितेन्द्रिय पुरुष और बादल दोनों ही विनाश और जीवन (वज्र और अमृत) के स्रोत होते हैं।
पदच्छेदः AI
इतिइति thus
and
आहआह (√अह् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) spoke
सःतद् (१.१) he (Brahma)
धर्मयाचितःधर्मयाचित (√याच्+क्त, १.१) entreated by Dharma
स्मरशापावधिदाम्स्मरशापअवधि–दाम् (√दा+क्विप्, २.१) the voice which gave the limit of Smara's curse
सरस्वतीम्सरस्वती (२.१) the voice
अशनेःअशनि (६.१) of the thunderbolt
अमृतस्यअमृत (६.१) of nectar
and
उभयोःउभ (६.२) of both
वशिनःवशिन् (१.३) the powerful
and
अम्बुधराःअम्बुधर (१.३) clouds
and
योनयःयोनि (१.३) are the sources
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
ति चा र्म या चि तः
स्म शा पा धि दां स्व तीम्
ने मृ स्य चो यो
र्व शि श्चा म्बु रा श्च यो यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.