परिणेष्यति पार्वतीं यदा
तपसा तत्प्रवणीकृतो हरः ।
उपलब्धसुखस्तदा स्मरं
वपुषा स्वेन नियोजयिष्यति ॥

अन्वयः AI यदा हरः तपसा तत्-प्रवणी-कृतः (सन्) पार्वतीम् परिणेष्यति, तदा उपलब्ध-सुखः (सन्) स्मरम् स्वेन वपुषा नियोजयिष्यति।
सञ्जीविनीटीका (मल्लिनाथः) परिणेष्यतीति ॥ इतीति च । धर्मेण धर्माख्यप्रजापतिना याचितः प्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वतीं परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तनन्दः सन् । स्मरं कामं स्वेन वपुषा नियोजयिष्यति । इत्येवं स्मरशापस्यावधिदामवसानदायिनीं सरस्वती वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाश्चाम्बुधराश्चाशनेरमृतस्य चेत्युभयोर्योनयः प्रभवः वशिपक्षेऽशन्यमृतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताग्न्युदकपरौ । युग्मकम् ॥ ४.४२ - ४३ ॥
Summary AI "When Hara (Shiva), made inclined towards her by her penance, marries Parvati, then, having found happiness, he will reunite Kama with his own body."
सारांश AI जब पार्वती की तपस्या से वश में हुए शिव उनसे विवाह करेंगे, तब सुख की प्राप्ति होने पर वे कामदेव को पुनः उसके शरीर से जोड़ देंगे।
पदच्छेदः AI
परिणेष्यतिपरिणेष्यति (परि√नी कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will marry
पार्वतीम्पार्वती (२.१) Parvati
यदायदा when
तपसातपस् (३.१) by penance
तत्प्रवणीकृतःतत्प्रवणकृत (√कृ+क्त, १.१) made inclined towards her
हरःहर (१.१) Hara (Shiva)
उपलब्धसुखःउपलब्ध (उप√लभ्+क्त)सुख (१.१) he who has obtained happiness
तदातदा then
स्मरम्स्मर (२.१) Smara (Kama)
वपुषावपुस् (३.१) with a body
स्वेनस्व (३.१) his own
नियोजयिष्यतिनियोजयिष्यति (नि√युज् +णिच् कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will reunite
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
रि णे ष्य ति पा र्व तीं दा
सा त्प्र णी कृ तो रः
ब्ध सु स्त दा स्म रं
पु षा स्वे नि यो यि ष्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.