इति चापि विधाय दीयतां
सलिलस्याञ्जलिरेक एव नौ ।
अविभज्य परत्र तं मया
सहितः पास्यति ते स बान्धवः ॥

अन्वयः AI इति च अपि विधाय, नौ एकः एव सलिलस्य अञ्जलिः दीयताम्। परत्र ते सः बान्धवः मया सहितः तम् अविभज्य पास्यति।
सञ्जीविनीटीका (मल्लिनाथः) इतीति ॥ अपि चेत्येवं विधाय कृत्वा नावावाभ्यामेक एव सलिलस्याञ्जलिर्दीयताम् । तमञ्जलिं स ते बान्धवः सखा स्मरः परत्र परलोके मया सहितोऽविभज्य पास्यति
Summary AI "And having done this, let just one handful of water be offered for us both. In the next world, that kinsman of yours (Kama), together with me, will drink it without division."
सारांश AI इसके बाद हम दोनों के लिए जल की एक ही अंजलि देना, जिसे तुम्हारा वह मित्र परलोक में मेरे साथ मिलकर पिएगा।
पदच्छेदः AI
इतिइति this
and
अपिअपि also
विधायविधाय (वि√धा+ल्यप्) having done
दीयताम्दीयताम् (√दा भावकर्मणोः लोट् (आत्मने.) प्र.पु. एक.) let be given
सलिलस्यसलिल (६.१) of water
अञ्जलिःअञ्जलि (१.१) a handful
एकःएक (१.१) one
एवएव only
नौअस्मद् (४.२) to us two
अविभज्यअविभज्य (वि√भज्+ल्यप्) without dividing
परत्रपरत्र in the next world
तम्तद् (२.१) it
मयाअस्मद् (३.१) with me
सहितःसहित (१.१) together
पास्यतिपास्यति (√पा कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will drink
तेयुष्मद् (६.१) your
सःतद् (१.१) that
बान्धवःबान्धव (१.१) kinsman
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
ति चा पि वि धा दी तां
लि स्या ञ्ज लि रे नौ
वि ज्य त्र तं या
हि तः पा स्य ति ते बा न्ध वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.