तदनु ज्वलनं मदर्पितं
त्वरयेर्दक्षिणवातवीजनैः ।
विदितं खलु ते यथा स्मरः
क्षणमप्युत्सहते न मां विना ॥

अन्वयः AI तत् अनु, त्वम् दक्षिण-वात-वीजनैः मत्-अर्पितम् ज्वलनम् त्वरयेः। ते विदितम् खलु यथा स्मरः क्षणम् अपि माम् विना न उत्सहते।
सञ्जीविनीटीका (मल्लिनाथः) तदन्विति । तच्चिताकरणानन्तरं मय्यर्पितं मदर्पितं ज्वलनमग्निं दक्षिणवातवीजनैर्मलयमारुतसंचारणैस्त्वरयेः । त्वरितं ज्वलयेत्यर्थः । त्वराहेतुमाह ते तव विदितं खलु `मतिबुद्धिपूजार्थेभ्यश्च` (अष्टाध्यायी ३.२.१८८ ) इति वर्तमाने क्तः । तद्योगात्कर्तरि षष्ठी । यथा येन प्रकारेण स्मरो मां विना क्षणमपि नोत्सहते न हृष्यति । तथा त्वया ज्ञातमेवेत्यर्थः
Summary AI "After that, you should hasten the fire I have entered by fanning it with southern breezes. For you know well that Smara cannot endure even a moment without me."
सारांश AI फिर दक्षिण की हवा से उस अग्नि को और तेज कर देना। तुम जानते हो कि कामदेव मेरे बिना एक क्षण भी नहीं रह सकते।
पदच्छेदः AI
तत्तद् that
अनुअनु after
ज्वलनम्ज्वलन (२.१) the fire
मदर्पितम्मद्अर्पित (२.१) offered by me
त्वरयेःत्वरयेः (√त्वर् +णिच् कर्तरि विधिलिङ् (परस्मै.) म.पु. एक.) you should hasten
दक्षिणवातवीजनैःदक्षिणवातवीजन (३.३) by fanning with southern breezes
विदितम्विदित (√विद्+क्त, १.१) it is known
खलुखलु indeed
तेयुष्मद् (३.१) by you
यथायथा how
स्मरःस्मर (१.१) Smara
क्षणम्क्षण (२.१) a moment
अपिअपि even
उत्सहतेउत्सहते (उद्√सह् कर्तरि लट् (आत्मने.) प्र.पु. एक.) endures
not
माम्अस्मद् (२.१) me
विनाविना without
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
नु ज्व नं र्पि तं
त्व ये र्द क्षि वा वी नैः
वि दि तं लु ते था स्म रः
क्ष प्यु त्स ते मां वि ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.