क्व नु ते हृदयंगमः सखा
कुसुमायोजितकार्मुको मधुः ।
न खलूग्ररुषा पिनाकिना
गमितः सोऽपि सुहृद्गतां गतिम् ॥

अन्वयः AI ते हृदयंगमः सखा कुसुम-आयोजित-कार्मुकः मधुः क्व नु? उग्र-रुषा पिनाकिना सः अपि सुहृत्-गताम् गतिम् न गमितः खलु?
सञ्जीविनीटीका (मल्लिनाथः) क्वेति । हृदयं गच्छतीति हृदयंगमो हृद्यः । खच्प्रकरणे गमेः सुप्युपसंख्यानम् इति खच्प्रत्ययः । `अरुर्द्विषदजन्तस्य मुम्` (अष्टाध्यायी ६.३.६७ ) इति मुमागमः । ते तव सखा कुसुमैरायोजितमारचितं कार्मुकं येन कार्मुकनिर्माता मधुर्वसन्तः क्व नु क्व वा । गत इति शेषः । अथवा सोऽप्युग्ररुषा तीव्रकोपेन पिनाकिनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम् । भस्मतामित्यर्थः । न गमितः खलु न प्रापितः किम् । `जिज्ञासानुनये खलु` इत्यमरः
Summary AI Rati asks, "Where now is your heart-touching friend Madhu, whose bow is strung with flowers? Surely he too has not been sent by the fiercely angry Shiva to the same fate as you, his friend?"
सारांश AI तुम्हारे प्रिय मित्र वसंत कहाँ हैं? कहीं क्रोधित शिव ने उन्हें भी तुम्हारे जैसी ही गति तो नहीं दे दी?
पदच्छेदः AI
क्वक्व where
नुनु now
तेयुष्मद् (६.१) your
हृदयंगमःहृदयम्गम (√गम्+अच्, १.१) heart-touching
सखासखि (१.१) friend
कुसुमायोजितकार्मुकःकुसुमआयोजित (√युज्+णिच्+क्त)कार्मुक (१.१) he whose bow is strung with flowers
मधुःमधु (१.१) Madhu
not
खलुखलु surely
उग्ररुषाउग्ररुष् (३.१) by the one with fierce anger
पिनाकिनापिनाकिन् (३.१) by Pinakin (Shiva)
गमितःगमित (√गम्+णिच्+क्त, १.१) made to go
सःतद् (१.१) he
अपिअपि also
सुहृद्गताम्सुहृद्–गता (√गम्+क्त, २.१) the state gone to by your friend
गतिम्गति (२.१) to the state
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
क्व नु ते हृ यं मः खा
कु सु मा यो जि का र्मु को धुः
लू ग्र रु षा पि ना कि ना
मि तः सो ऽपि सु हृ द्ग तां तिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.