ऋजुतां नयतः स्मरामि ते
शरमुत्सङ्गनिषण्णधन्वनः ।
मधुना सह सस्मितं कथां
नयनोपान्तविलोकितं च यत् ॥

अन्वयः AI उत्सङ्ग-निषण्ण-धन्वनः ते शरम् ऋजुताम् नयतः, मधुना सह सस्मितम् कथाम्, यत् नयन-उपान्त-विलोकितम् च, (तत् सर्वम्) स्मरामि।
सञ्जीविनीटीका (मल्लिनाथः) ऋजुतामिति । शरमृजुतामार्जवं नयत उत्सङ्गे निषण्णमङ्कगतं धनुर्यस्य तस्य । `धनुषश्च` (अष्टाध्यायी ५.४.१३२ ) इत्यनङादेशः । ते तव मधुना वसन्तेन सह `मधुर्दैत्ये वसत्ने च चैत्रे च` इति विश्वः । सस्मितां कथामालापं तथा यन्नयनोपान्तविलोकितमपाङ्गवीक्षणम् । तत् इत्यनुषङ्गः । तच्च स्मरामि
Summary AI "I remember you straightening an arrow, your bow resting on your lap; I remember your smiling conversations with Madhu (Spring), and that glance from the corner of your eye."
सारांश AI गोद में धनुष रखे हुए तुम्हारे बाण सीधा करने, वसंत के साथ तुम्हारी मुस्कुराहट भरी बातों और तुम्हारी तिरछी चितवनों की मुझे याद आ रही है।
पदच्छेदः AI
ऋजुताम्ऋजुता (२.१) straightness
नयतःनयत् (√नी+शतृ, ६.१) of you who was making
स्मरामिस्मरामि (√स्मृ कर्तरि लट् (परस्मै.) उ.पु. एक.) I remember
तेयुष्मद् (६.१) your
शरम्शर (२.१) arrow
उत्सङ्गनिषण्णधन्वनःउत्सङ्गनिषण्ण (नि√सद्+क्त)धन्वन् (६.१) of you whose bow was resting on your lap
मधुनामधु (३.१) with Madhu
सहसह with
सस्मितम्सस्मितम् with a smile
कथाम्कथा (२.१) conversation
नयनोपान्तविलोकितम्नयनउपान्तविलोकित (वि√लोक्+क्त, २.१) the glance from the corner of the eye
and
यत्यद् (२.१) that which
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
जु तां तः स्म रा मि ते
मु त्स ङ्ग नि ण्ण न्व नः
धु ना स्मि तं थां
नो पा न्त वि लो कि तं यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.