Loading data... On slow networks this could take a few minutes.
100%

क्रियतां कथमन्त्यमण्डनं
परलोकान्तरितस्य ते मया ।
सममेव गतोऽस्यतर्कितां
गतिमङ्गेन च जीवितेन च ॥

अन्वयः AI परलोक-अन्तरितस्य ते अन्त्यमण्डनम् मया कथम् क्रियताम्? (त्वम्) अङ्गेन च जीवितेन च समम् एव अतर्किताम् गतिम् गतः असि।
सञ्जीविनीटीका (मल्लिनाथः) क्रियतामिति । परलोकेऽन्तरितस्य व्यवहितस्य । मृतस्येत्यर्थः । ते तव मयान्त्यमण्डनं कथं केन प्रकारेण क्रियताम् । क्रियातामित्यत्र कामचारे लोट् बोध्यः । द्रुतदग्धस्य ते यथेच्छमण्डनमपि न संभवतीत्यर्थः । कुतः । अङ्गेन च जीवितेन च समं सहैवातर्कितामविचारितां गतिं गतोऽसि । इह मृतशरीरमपि नास्ति कस्य मण्डनमिति भावः
Summary AI Rati asks, "How can I perform the final funeral rites for you who have departed to the other world? You have reached an unforeseen state, having departed at once with both your body and your life."
सारांश AI हे प्रिय! तुम अपने शरीर और प्राणों के साथ अचानक परलोक सिधार गए हो, अब मैं तुम्हारा अंतिम श्रृंगार कैसे करूँ?
पदच्छेदः AI
क्रियताम्क्रियताम् (√कृ भावकर्मणोः लोट् (आत्मने.) प्र.पु. एक.) let it be done
कथम्कथम् how
अन्त्यमण्डनम्अन्त्यमण्डन (१.१) the final decoration
परलोकान्तरितस्यपरलोकअन्तरित (अन्तर√इ+क्त, ६.१) of you who has gone to the other world
तेयुष्मद् (६.१) of you
मयाअस्मद् (३.१) by me
समम्समम् together
एवएव indeed
गतःगत (√गम्+क्त, १.१) gone
असिअसि (√अस् कर्तरि लट् (परस्मै.) म.पु. एक.) you are
अतर्किताम्अतर्किता (√तर्क्+क्त, २.१) unforeseen
गतिम्गति (२.१) to a state
अङ्गेनअङ्ग (३.१) with your body
and
जीवितेनजीवित (३.१) with your life
and
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
क्रि तां न्त्य ण्ड नं
लो का न्त रि स्य ते या
मे तो ऽस्य र्कि तां
ति ङ्गे जी वि ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.