विबुधैरसि यस्य दारुणै-
रसमाप्ते परिकर्मणि स्मृतः ।
तमिमं कुरु दक्षिणेतरं
चरणं निर्मितरागमेहि मे ॥

अन्वयः AI यस्य परिकर्मणि असमाप्ते सति दारुणैः विबुधैः स्मृतः असि, तम् इमम् मे दक्षिण-इतरम् चरणम् निर्मित-रागम् कुरु। एहि।
सञ्जीविनीटीका (मल्लिनाथः) विबुधैरिति । दारुणैः क्रूरैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः । अनभिज्ञत्रत्वं च ध्वन्यते । यस्य मच्चरणस्य परिकर्मणि प्रसाधने । `परिकर्म प्रसाधनम्` इत्यमरः । आसमाप्ते सति स्मृतोऽसि । तमिमं दक्षिणेतरं वामं मे चरणं निर्मितरागं कुर्वेह्यागच्छ
Summary AI "You were summoned by the cruel gods while my adornment was still incomplete. Come, and place this left foot of mine, whose lac-dye has been applied, on your head (as a sign of appeasement)."
सारांश AI देवताओं ने तुम्हारा श्रृंगार कार्य पूरा होने से पहले ही तुम्हें बुला लिया; अब लौट आओ और मेरे बाएं पैर में आलता लगाने का अधूरा काम पूरा करो।
पदच्छेदः AI
विबुधैःविबुध (३.३) by the gods
असिअसि (√अस् कर्तरि लट् (परस्मै.) म.पु. एक.) you are
यस्ययद् (६.१) whose
दारुणैःदारुण (३.३) cruel
असमाप्तेअसमाप्त (नञ्+सम्√आप्+क्त, ७.१) being incomplete
परिकर्मणिपरिकर्मन् (७.१) adornment
स्मृतःस्मृत (√स्मृ+क्त, १.१) remembered
तम्तद् (२.१) that
इमम्इदम् (२.१) this
कुरुकुरु (√कृ कर्तरि लोट् (परस्मै.) म.पु. एक.) make
दक्षिणेतरम्दक्षिणइतर (२.१) left
चरणम्चरण (२.१) foot
निर्मितरागम्निर्मितराग (२.१) whose lac-dye is applied
एहिएहि (√इ कर्तरि लोट् (परस्मै.) म.पु. एक.) Come
मेअस्मद् (६.१) my
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि बु धै सि स्य दा रु णै
मा प्ते रि र्म णि स्मृ तः
मि मं कु रु क्षि णे रं
णं नि र्मि रा मे हि मे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.