Loading data... On slow networks this could take a few minutes.
100%

रचितं रतिपण्डित त्वया
स्वयमङ्गेषु ममेदमार्तवम् ।
ध्रियते कुसुमप्रसाधनं
तव तच्चारु वपुर्न दृश्यते ॥

अन्वयः AI हे रति-पण्डित, त्वया स्वयम् मम अङ्गेषु रचितम् इदम् आर्तवम् कुसुम-प्रसाधनम् ध्रियते। तव तत् चारु वपुः तु न दृश्यते।
सञ्जीविनीटीका (मल्लिनाथः) रचितमिति । हे रतिपण्डित रतिकुशल, त्वया ममाङ्‌गेष्ववयवेषु स्वयं रचितम् ऋतुरस्य प्राप्त आर्तवं वासन्तम् । `ऋतोरण्` (अष्टाध्यायी ५.१.१०५ ) इत्यण्प्रत्ययः । कुसुमप्रसाधनं पुष्पाभरणमिदं ध्रियतेऽवतिष्ठते । `धृञ् अवस्थाने` इति धातोस्तौदादिकात्कर्तरि लट् । तव तत्प्रसाधकं चारु सुन्दरं वपुस्तु न दृश्यते
Summary AI "O expert in love-making, this seasonal floral adornment, arranged by you yourself on my limbs, is still worn by me. But that beautiful body of yours is nowhere to be seen."
सारांश AI हे रति-कौशल में निपुण प्रिय! तुमने स्वयं अपने हाथों से मेरे शरीर पर जो फूलों के आभूषण सजाए थे, वे तो सुरक्षित हैं पर तुम्हारा सुंदर शरीर नष्ट हो गया।
पदच्छेदः AI
रचितम्रचित (√रच्+क्त, १.१) arranged
रतिपण्डितरतिपण्डित (८.१) O expert in love-making
त्वयायुष्मद् (३.१) by you
स्वयम्स्वयम् yourself
अङ्गेषुअङ्ग (७.३) on my limbs
ममअस्मद् (६.१) my
इदम्इदम् (१.१) this
आर्तवम्आर्तव (१.१) seasonal
ध्रियतेध्रियते (√धृ भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is worn
कुसुमप्रसाधनम्कुसुमप्रसाधन (१.१) floral adornment
तवयुष्मद् (६.१) your
तत्तद् (१.१) that
चारुचारु (१.१) beautiful
वपुःवपुस् (१.१) body
not
दृश्यतेदृश्यते (√दृश् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is seen
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
चि तं ति ण्डि त्व या
स्व ङ्गे षु मे मा र्त वम्
ध्रि ते कु सु प्र सा नं
च्चा रु पु र्न दृ श्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.