Loading data... On slow networks this could take a few minutes.
100%

शिरसा प्रणिपत्य याचिता-
न्युपगूढानि सवेपथूनि च ।
सुरतानि च तानि ते रहः
स्मर संस्मृत्य न शान्तिरस्ति मे ॥

अन्वयः AI हे स्मर, शिरसा प्रणिपत्य याचितानि, स-वेपथूनि उपगूढानि, तानि ते रहः सुरतानि च संस्मृत्य मे शान्तिः न अस्ति।
सञ्जीविनीटीका (मल्लिनाथः) शिरसेति । हे स्मर ! शिरसा प्रणिपत्य याचितानि सवेपथूनि सकम्पानि । `ट्वितोऽथुच्` (अष्टाध्यायी ३.३.८९ ) इत्यथुच्प्रत्ययः । सात्विकान्तरोपलक्षणमेतत् । `स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्विकाः परिकीर्तिताः ॥` इति । उपगूढान्यालिङ्गनानि च । नपुंसके भावे क्तः । तान्यनुभूतप्रकाराणि रह एकान्ते सुरतानि च संस्मृत्य मे शान्तिर्नास्ति । अत्र समानकर्तृकत्वं दुर्घटं समानक्रियापेक्षास्तीति केचित्
Summary AI "O Smara, remembering those secret love-makings of yours—implored with a bow of my head, and those trembling embraces—I find no peace."
सारांश AI तुम्हारे वे आलिंगन और एकांत के सुख, जिन्हें मैंने सिर झुकाकर तुमसे माँगा था, उन्हें याद करके मेरे मन को तनिक भी शांति नहीं मिल रही है।
पदच्छेदः AI
शिरसाशिरस् (३.१) with my head
प्रणिपत्यप्रणिपत्य (प्र+नि√पत्+ल्यप्) having bowed
याचितानियाचित (√याच्+क्त, १.३) implored
उपगूढानिउपगूढ (उप√गुह्+क्त, १.३) embraces
सवेपथूनिवेपथु (१.३) trembling
and
सुरतानिसुरत (१.३) love-makings
and
तानितद् (१.३) those
तेयुष्मद् (६.१) your
रहःरहस् (७.१) in secret
स्मरस्मर (८.१) O Smara
संस्मृत्यसंस्मृत्य (सम्√स्मृ+ल्यप्) remembering
no
शान्तिःशान्ति (१.१) peace
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
मेअस्मद् (६.१) for me
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
शि सा प्र णि त्य या चि ता
न्यु गू ढा नि वे थू नि
सु ता नि ता नि ते हः
स्म सं स्मृ त्य शा न्ति स्ति मे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.