अनन्यभाजं पतिमाप्नुहीति
सा तथ्यमेवाभिहिता भवेन
न हीश्वरव्याहृतयः कदा
चित्पुष्यन्ति लोके विपरीतमर्थ्-
अम्

अन्वयः AI "अनन्य-भाजम् पतिम् आप्नुहि" इति सा भवेन तथ्यम् एव अभिहिता । हि लोके ईश्वर-व्याहृतयः कदा चित् विपरीतम् अर्थम् न पुष्यन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) अनन्येति । सा कृतप्रणामा देवी, भवेन हरेण । अन्यां न भजतीति तमनन्यभाजम् `भजोण्विः` इति ण्विप्रत्ययः । सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः । पतिमाप्नुहीति तथ्यं सत्यमेवाभिहितोक्ता उत्तरत्र तथैव संभवादिति भावः । अभिदधातेर्ब्रुवर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । तथाहि । ईश्वरव्याहृतयो महापुरुषोक्तयः कदाचिदपि लोके भुवने `लोकस्तु भुवने जने` इत्यमरः (अमरकोशः ३.३.२ ) । विपरीतं विपरीतं विसंवादिनमर्थमभिधेयं न पुष्णन्ति । न बोधयन्तीत्यर्थः
Summary AI "Obtain a husband devoted to no other," thus she was truly blessed by Bhava (Shiva). For in this world, the words of the powerful never bear a contrary meaning.
सारांश AI शिव ने उन्हें 'अनन्य प्रेमी पति प्राप्त करो' ऐसा यथार्थ वरदान दिया, क्योंकि ईश्वर के शब्द संसार में कभी निष्फल नहीं होते।
पदच्छेदः AI
अनन्यभाजम्अनन्यभाज् (२.१) devoted to no other
पतिम्पति (२.१) a husband
आप्नुहिआप्नुहि (√आप् कर्तरि लोट् (परस्मै.) म.पु. एक.) Obtain
इतिइति thus
सातद् (१.१) she
तथ्यम्तथ्य (२.१) truly
एवएव indeed
अभिहिताअभिहित (अभि√धा+क्त, १.१) was blessed
भवेनभव (३.१) by Bhava (Shiva)
not
हिहि for
ईश्वरव्याहृतयःईश्वरव्याहृति (१.३) the utterances of the powerful
कदा चित्कदाचित् ever
पुष्यन्तिपुष्यन्ति (√पुष् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) bear
लोकेलोक (७.१) in the world
विपरीतम्विपरीत (२.१) a contrary
अर्थम्अर्थ (२.१) meaning
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
न्य भा जं ति मा प्नु ही ति
सा थ्य मे वा भि हि ता वे
ही श्व व्या हृ यः दा चि
त्पु ष्य न्ति लो के वि री र्थम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.