ततो भुजंगाधिपतेः फणाग्रै-
रधः कथं चिद्धृतभूमिभागः ।
शनैः कृतप्राणविमुक्तिरीशः
पर्यङ्कबन्धं निबिडं बिभेद ॥

अन्वयः AI ततः भुजंग-अधिपतेः फण-अग्रैः अधः कथम् चित् धृत-भूमि-भागः, कृत-प्राण-विमुक्तिः ईशः शनैः निबिडम् पर्यङ्क-बन्धम् बिभेद ।
सञ्जीविनीटीका (मल्लिनाथः) तत इति । ततो भुजंगाधिपतेः शेषस्य फणाग्रैरधो भूमेरधः कथंचिदतियत्नेन धृतो भूमिभागः स्वोपवेशनभूभागो यस्य स तथोक्तः । वायुधारणाहितलाघवनिवृत्त्या भगवतो गुरुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्‌निरुद्धानां विमुक्तिः पुनः संचारो येन स कृतप्राणविमुक्तिरीशो निबिडं दृढं पर्यङ्कबन्धं वीरासनं बिभेद शिथिलीचकार
Summary AI Then, the Lord (Shiva), whose seat was somehow supported from below by the tips of the serpent-king's hoods and who had released his vital breaths, slowly broke his firm meditative posture.
सारांश AI पृथ्वी के भार को धारण करने वाले शेषनाग के फणों के थोड़ा हिलने पर, भगवान शिव ने धीरे-धीरे श्वास छोड़ते हुए अपनी सघन समाधि मुद्रा को खोला।
पदच्छेदः AI
ततःततः Then
भुजंगाधिपतेःभुजंगअधिपति (६.१) of the lord of serpents
फणाग्रैःफणअग्र (३.३) by the tips of the hoods
अधःअधः below
कथं चित्कथंचित् somehow
धृतभूमिभागःधृत (√धृ+क्त)भूमिभाग (१.१) whose seat was supported
शनैःशनैः slowly
कृतप्राणविमुक्तिःकृत (√कृ+क्त)प्राणविमुक्ति (१.१) having released his vital breaths
ईशःईश (१.१) the Lord (Shiva)
पर्यङ्कबन्धम्पर्यङ्कबन्ध (२.१) the seated posture
निबिडम्निबिड (२.१) firm
बिभेदबिभेद (√भिद् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) broke
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
तो भु जं गा धि तेः णा ग्रै
धः थं चि द्धृ भू मि भा गः
नैः कृ प्रा वि मु क्ति री शः
र्य ङ्क न्धं नि बि डं बि भे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.