श्रुताप्सरोगीतिरपि क्षणेऽस्मि-
न्हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः
समाधिभेदप्रभवो भवन्ति ॥

अन्वयः AI अस्मिन् क्षणे श्रुत-अप्सरः-गीतिः अपि हरः प्रसंख्यान-परः बभूव । हि जातु आत्म-ईश्वराणाम् विघ्नाः समाधि-भेद-प्रभवाः न भवन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) श्रुतेति । अस्मिन्क्षणे वसन्ताविर्भावकाले भगवान्हरः श्रुताप्सरोगीतिरपि । दिव्याङ्गनागानमाकर्णयन्नपीत्यर्थः । प्रसंख्यानपर आत्मानुसंधानपरो बभूव । तथाहि । आत्मनश्चित्तस्येश्वराणां नियन्तॄणाम् । वशिनामित्यर्थः । विहन्यन्त एभिरिति विध्नाः प्रत्यूहाः । घञर्थे कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति
Summary AI At that moment, even though he could hear the songs of the Apsaras, Hara (Shiva) remained absorbed in deep meditation. Indeed, for those who are masters of themselves, obstacles are never capable of breaking their concentration.
सारांश AI अप्सराओं के गायन के बावजूद भगवान शिव अपनी समाधि और आत्म-चिन्तन में लीन रहे। आत्मज्ञानी महापुरुषों की एकाग्रता में बाहरी बाधाएँ विघ्न नहीं डाल सकतीं।
पदच्छेदः AI
श्रुताप्सरोगीतिःश्रुत (√श्रु+क्त)अप्सरस्गीति (१.१) he who heard the songs of the Apsaras
अपिअपि even though
क्षणेक्षण (७.१) moment
अस्मिन्इदम् (७.१) in this
हरःहर (१.१) Hara (Shiva)
प्रसंख्यानपरःप्रसंख्यानपर (१.१) absorbed in deep meditation
बभूवबभूव (√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) remained
आत्मेश्वराणाम्आत्मन्ईश्वर (६.३) for those who are masters of themselves
not
हिहि indeed
जातुजातु ever
विघ्नाःविघ्न (१.३) obstacles
समाधिभेदप्रभवःसमाधिभेदप्रभव (१.३) capable of breaking concentration
भवन्तिभवन्ति (√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
श्रु ता प्स रो गी ति पि क्ष णे ऽस्मि
न्ह रः प्र सं ख्या रो भू
त्मे श्व रा णां हि जा तु वि घ्नाः
मा धि भे प्र वो न्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.