केनाभ्यसूया पदकाङ्क्षिणा ते
नितान्तदीर्घैर्जनिता तपोभिः ।
यावद्भवत्याहितसायकस्य
मत्कार्मुकस्यास्य निदेशवर्ती ॥

अन्वयः AI पदकाङ्क्षिणा केन नितान्तदीर्घैः तपोभिः ते अभ्यसूया जनिता? यावत् अस्य आहितसायकस्य मत्कार्मुकस्य निदेशवर्ती भवति।
सञ्जीविनीटीका (मल्लिनाथः) केनेति ॥ पदकाङ्क्षिणा स्वाराज्यकामेन केन पुंसा नितान्तदीर्घैरतिप्रभूतैस्तपोभिस्ते तवाभ्यसूयेर्ष्या जनिता । तं ब्रूहीति शेषः । किमर्थम् । यावद्यतः स भवद्वैर्याहितसायकस्य संहितबाणस्यास्य मत्कार्मुकस्य निदेशे वर्तत इति निदेशवर्त्याज्ञावशो भवति । अविलम्बेनैव भविष्यतीत्यर्थः । `वर्तमानसामीप्ये वर्तमानवद्वा` (अष्टाध्यायी ३.३.१३१ ) इति लट्
Summary AI "Has some rival, desiring your position, caused you jealousy with his extremely long penances? He cannot succeed so long as he remains a target for this bow of mine, with an arrow fitted to it."
सारांश AI कौन अपनी लंबी तपस्या से आपके पद की आकांक्षा कर रहा है? वह मेरे बाणों से सुसज्जित धनुष की आज्ञा के अधीन होने वाला है।
पदच्छेदः AI
केनकिम् (३.१) by whom
अभ्यसूयाअभ्यसूया (१.१) envy
पदकाङ्क्षिणापदकाङ्क्षिन् (३.१) by one desiring your position
तेयुष्मद् (४.१) for you
नितान्तदीर्घैःनितान्तदीर्घ (३.३) by very long
जनिताजनित (√जन्+णिच्+क्त, १.१) has been generated
तपोभिःतपस् (३.३) by austerities
यावत्यावत् as long as
भवतिभवति (√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) he is
आहितसायकस्यआहित (आ√धा+क्त)सायक (६.१) of (the bow) on which an arrow is placed
मत्कार्मुकस्यमद्कार्मुक (६.१) of my bow
अस्यइदम् (६.१) of this
निदेशवर्तीनिदेशवर्तिन् (१.१) under the command of
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
के ना भ्य सू या का ङ्क्षि णा ते
नि ता न्त दी र्घै र्ज नि ता पो भिः
या द्भ त्या हि सा स्य
त्का र्मु स्या स्य नि दे र्ती
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.