मधु द्विरेफः कुसुमैकपात्रे
पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण च स्पर्शनिमीलिताक्षीं
मृगीमकण्डूयत कृष्णसारः ॥

अन्वयः AI स्वाम् प्रियाम् अनुवर्तमानः द्विरेफः कुसुम-एक-पात्रे मधु पपौ । कृष्ण-सारः च शृङ्गेण स्पर्श-निमीलित-अक्षीम् मृगीम् अकण्डूयत ।
सञ्जीविनीटीका (मल्लिनाथः) मध्विति । द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः । उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः- `शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते । यथा भ्रमरशब्दस्य द्विरेफत्वाद् द्विरेफो भ्रमरः` इति । कुसुममेवैकं साधारणं पात्रं तस्मिन्मधु मकरन्दम् । `मधु मद्ये पुष्परसे` इति विश्वः । स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन्पपौ । तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शवलश्च कृष्णसारः कृष्णमृगः । `वर्णो वर्णेन` (अष्टाध्यायी २.१.६९ ) इति समासः । स्पर्शेन स्पर्शसुखेन निमीलिताक्षीं मृगीं श्रृङ्गेणाकण्डूयत कर्षितवान् । `कण्ड्‌वादिभ्यो यक्‌` इति यक् । ततः कर्तरि लङ्
Summary AI Following his beloved, the male bee drank honey from the same flower-cup. And the black antelope gently scratched the doe, whose eyes were closed at the touch, with his horn.
सारांश AI भौंरा अपनी प्रियतमा के साथ एक ही फूल के पात्र से रस पीने लगा और काले हिरण ने अपने सींग से प्रेमवश आँखें मूँदे खड़ी हिरणी को सहलाया।
पदच्छेदः AI
मधुमधु (२.१) honey
द्विरेफःद्विरेफ (१.१) the male bee
कुसुमैकपात्रेकुसुमएकपात्र (७.१) in the same flower-cup
पपौपपौ (√पा कर्तरि लिट् (परस्मै.) प्र.पु. एक.) drank
प्रियाम्प्रिया (२.१) beloved
स्वाम्स्व (२.१) his own
अनुवर्तमानःअनुवर्तमान (अनु√वृत्+शानच्, १.१) following
शृङ्गेणशृङ्ग (३.१) with his horn
and
स्पर्शनिमीलिताक्षीम्स्पर्शनिमीलित (नि√मील्+क्त)अक्षि (२.१) her whose eyes were closed at the touch
मृगीम्मृगी (२.१) the doe
अकण्डूयतअकण्डूयत (√कण्डूय कर्तरि लङ् (आत्मने.) प्र.पु. एक.) scratched
कृष्णसारःकृष्णसार (१.१) the black antelope
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
धु द्वि रे फः कु सु मै पा त्रे
पौ प्रि यां स्वा नु र्त मा नः
शृ ङ्गे स्प र्श नि मी लि ता क्षीं
मृ गी ण्डू कृ ष्ण सा रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.