तं देशमारोपितपुष्पचापे
रतिद्वितीये मदने प्रपन्ने ।
काष्ठागतस्नेहरसानुविद्धं
द्वन्द्वानि भावं क्रियया विवव्रुः ॥

अन्वयः AI आरोपित-पुष्प-चापे रति-द्वितीये मदने तम् देशम् प्रपन्ने सति, द्वन्द्वानि काष्ठा-गत-स्नेह-रस-अनुविद्धम् भावम् क्रियया विवव्रुः ।
सञ्जीविनीटीका (मल्लिनाथः) तमिति । आरोपितमधिज्यं कृतं पुष्पचापं येन तस्मिन्रतिर्द्वितीया यस्य तस्मिन्रतिसहाये मदने तं देशं स्थाण्वाश्रमं प्रपन्ने प्राप्ते सति द्वन्द्वानि स्थावराणि जङ्गमानि च मिथुनानि काष्ठोत्कर्षः । `काष्ठोत्कर्षे स्थितौ दिशि` इत्यमरः (अमरकोशः ३.३.४७ ) । तां गतो यः स्नेह इष्टसाधननिबन्धनः प्रेमापरनामा ममताभिमानः `प्रेमा ना प्रियता हार्दं प्रेम स्नेहः` इत्यमरः (अमरकोशः ३.३.४७ ) । स एव रसस्तेनानुविद्धं संपृक्तं भावं रत्याख्यं श्रृङ्गारभावं क्रियया कार्यभूतया चेष्टया विवब्रुः प्रकटीचक्रुः । श्रृङ्गारचेष्टाः प्रावर्तन्तेत्यर्थः
Summary AI When Madana (Kama), who had strung his flowery bow and was accompanied by Rati, reached that place, the pairs of creatures revealed through their actions their inner feelings, which were filled with the essence of love that had reached its peak.
सारांश AI जब कामदेव रति के साथ फूलों का धनुष लिए वहाँ पहुँचा, तब उस वन के सभी प्राणियों के जोड़े अपनी क्रियाओं द्वारा एक-दूसरे के प्रति प्रगाढ़ प्रेम प्रकट करने लगे।
पदच्छेदः AI
तंतद् (२.१) that
देशम्देश (२.१) place
आरोपितपुष्पचापेआरोपित (आ√रुह्+णिच्+क्त)पुष्पचाप (७.१) on him who had strung his flower-bow
रतिद्वितीयेरतिद्वितीय (७.१) accompanied by Rati
मदनेमदन (७.१) on Madana (Kama)
प्रपन्नेप्रपन्न (प्र√पद्+क्त, ७.१) having reached
काष्ठागतस्नेहरसानुविद्धम्काष्ठागतस्नेहरसअनुविद्ध (अनु√व्यध्+क्त, २.१) filled with the essence of love that had reached its peak
द्वन्द्वानिद्वन्द्व (१.३) The pairs of creatures
भावम्भाव (२.१) their inner feeling
क्रिययाक्रिया (३.१) through action
विवव्रुःविवव्रुः (वि√वृ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) revealed
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
तं दे मा रो पि पु ष्प चा पे
ति द्वि ती ये ने प्र न्ने
का ष्ठा स्ने सा नु वि द्धं
द्व न्द्वा नि भा वं क्रि या वि व्रुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.