कुबेरगुप्तां दिशमुष्णरश्मौ
गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
दिग्दक्षिणा गन्धवहं मुखेन
व्यलीकनिःश्वासमिवोत्ससर्ज ॥

अन्वयः AI उष्ण-रश्मौ समयम् विलङ्घ्य कुबेर-गुप्ताम् दिशम् गन्तुम् प्रवृत्ते सति, दक्षिणा दिक् मुखेन व्यलीक-निःश्वासम् इव गन्ध-वहम् उत्ससर्ज ।
सञ्जीविनीटीका (मल्लिनाथः) कुबेरेति । उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं संगमकालं च विलङ्ध्याकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालितां कुत्सितशरीरेण केनचिद्रक्षितां च दिशमुदीचीं स्त्रीलिङ्गाक्षिप्तां कांचिन्नायिकां च गन्तुं चलितुं संगन्तुं च प्रवृत्ते सति दक्षिणा दिग्दाक्षिण्यवती नायिका च मुखेनाग्रभागेन वक्त्रेण च । वहतीति वहः । पचाद्यच् । गन्धस्य वहं गन्धवहमनिलं व्यलीकेन दुःखेन निश्वासस्तं व्यलीकनिस्वासमिव । `दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः` इति वैजयन्ती । उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासंगतिं प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिंचिद्वदा दुःखान्निश्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ताः इति वाक्यार्थः । अत्रोत्प्रेक्षालंकारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यम् । केवलविशेषसामर्थ्यादेवाप्रस्तुतप्रतीतौ सोत्तिष्ठते । अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । नच श्लेष एव प्रकृताप्रकृतविषयः, उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्माच्छब्दशक्तिमूलोऽयं ध्वनिः । स च व्यलीकनिश्वासरूपचेतनधर्मसंभावनार्थं दक्षिणस्या दिशो नायिकया सहाभेदमासदयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः
Summary AI As the hot-rayed sun, transgressing the proper season, began to move towards the northern direction guarded by Kubera, the southern direction released a fragrant breeze from its "face," like a sigh of sorrow.
सारांश AI जब सूर्य ने समय की मर्यादा छोड़कर उत्तर दिशा की ओर प्रस्थान किया, तब दक्षिण दिशा ने मलय पवन के रूप में मानो कोई दुख भरी लंबी साँस छोड़ी हो।
पदच्छेदः AI
कुबेरगुप्ताम्कुबेरगुप्त (√गुप्+क्त, २.१) guarded by Kubera
दिशम्दिश् (२.१) direction
उष्णरश्मौउष्णरश्मि (७.१) the hot-rayed sun
गन्तुम्गन्तुम् (√गम्+तुमुन्) to go
प्रवृत्तेप्रवृत्त (प्र√वृत्+क्त, ७.१) having set out
समयम्समय (२.१) the season
विलङ्घ्यविलङ्घ्य (वि√लङ्घ्+ल्यप्) having transgressed
दिक्दिश् (१.१) the direction
दक्षिणादक्षिणा (१.१) southern
गन्धवहम्गन्धवह (२.१) the fragrance-bearer (wind)
मुखेनमुख (३.१) with its face
व्यलीकनिःश्वासम्व्यलीकनिःश्वास (२.१) a sigh of sorrow
इवइव like
उत्ससर्जउत्ससर्ज (उत्√सृज् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) released
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
कु बे गु प्तां दि मु ष्ण श्मौ
न्तुं प्र वृ त्ते यं वि ङ्घ्य
दि ग्द क्षि णा न्ध हं मु खे
व्य ली निः श्वा मि वो त्स र्ज
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.