सुराः समभ्यर्थयितार एते
कार्यं त्रयाणामपि विष्टपानाम् ।
चापेन ते कर्म न चातिहिंस्र-
महो बतासि स्पृहणीयवीर्यः ॥

अन्वयः AI एते सुराः समभ्यर्थयितारः। कार्यम् त्रयाणाम् अपि विष्टपानाम् अस्ति। ते कर्म चापेन साध्यम् च अतिहिंस्रम् न। अहो बत, त्वम् स्पृहणीयवीर्यः असि।
सञ्जीविनीटीका (मल्लिनाथः) सुरा इति ॥ एते सुराः समभ्यर्ययितारो याचितारः । कार्यं प्रयोजनं त्रयाणां विष्टपानामपि संबन्धि । सर्वलोकार्थमित्यर्थः। कर्म ते तव चापेन । न त्वन्येनेति भावः । अतिहिंस्त्रमतिघातुकं च न। अहो बत इति संबोधने । `अहो बतानुकम्पायां खेदे संबोधनेऽपि च` इति विश्वः । अथवा अहो आश्चर्ये । बतेत्यामन्त्रणे संतोषे चेति । `बतामन्त्रणसंतोषखेदानुक्रोशविस्मये` । इति विश्वः । स्पृहणीयं च इति नानार्थकोषः
Summary AI "These gods are the supplicants, and the task concerns all three worlds. Your work is to be done with a bow and is not excessively violent. Oh, indeed, you possess an enviable prowess!"
सारांश AI स्वयं देवता प्रार्थी हैं और तीनों लोकों का कार्य सिद्ध करना है। तुम्हारा धनुष भी अधिक हिंसक नहीं है, वास्तव में तुम्हारा सामर्थ्य अत्यंत प्रशंसनीय है।
पदच्छेदः AI
सुराःसुर (१.३) the gods
समभ्यर्थयितारःसमभ्यर्थयितृ (सम्+अभि√अर्थ्+तृच्, १.३) are the requesters
एतेएतद् (१.३) these
कार्यम्कार्य (१.१) the task
त्रयाणाम्त्रि (६.३) of the three
अपिअपि also
विष्टपानाम्विष्टप (६.३) worlds
चापेनचाप (३.१) with a bow
तेयुष्मद् (६.१) your
कर्मकर्मन् (१.१) act
not
and
अतिहिंस्रम्अतिहिंस्र (१.१) very violent
अहोअहो oh!
बतबत indeed
असिअसि (√अस् कर्तरि लट् (परस्मै.) म.पु. एक.) you are
स्पृहणीयवीर्यःस्पृहणीयवीर्य (१.१) one whose prowess is enviable
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
सु राः भ्य र्थ यि ता ते
का र्यं त्र या णा पि वि ष्ट पा नाम्
चा पे ते र्म चा ति हिं स्र
हो ता सि स्पृ णी वी र्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.