Loading data... On slow networks this could take a few minutes.
100%

तस्मिन्सुराणां विजयाभ्युपाये
तवैव नामास्त्रगतिः कृती त्वम् ।
अप्यप्रसिद्धं यशसे हि पुंसा-
मनन्यसाधारणमेव कर्म ॥

अन्वयः AI सुराणाम् तस्मिन् विजयाभ्युपाये तव एव अस्त्रगतिः नाम। त्वम् कृती असि। हि पुंसाम् अप्रसिद्धम् अपि अनन्यसाधारणम् कर्म एव यशसे भवति।
सञ्जीविनीटीका (मल्लिनाथः) तस्मिन्निति ॥ सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन्हरेऽस्त्रप्रसरस्तवैव नाम । नामेति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतस्त्वं कृती कृतार्थः । तथाहि । अप्रसिद्धमप्यनन्यसाधारणमेव कर्म पुंसां यशसे हि । इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः
Summary AI "In this strategy for the gods' victory, your weapon's reach is the only one that matters; you are the one to accomplish it. For it is an extraordinary act, even if unprecedented, that brings fame to men."
सारांश AI देवताओं की विजय के इस उपाय में केवल तुम्हारे ही बाणों की गति है। जो कार्य दूसरों के लिए असंभव हो, वही पुरुष को महान यश दिलाता है।
पदच्छेदः AI
तस्मिन्तद् (७.१) in that
सुराणाम्सुर (६.३) of the gods
विजयाभ्युपायेविजयअभ्युपाय (७.१) in the means for victory
तवयुष्मद् (६.१) your
एवएव only
नामनाम indeed
अस्त्रगतिःअस्त्रगति (१.१) is the reach of the weapon
कृतीकृतिन् (१.१) skillful
त्वम्युष्मद् (१.१) you
अपिअपि even
अप्रसिद्धम्अप्रसिद्ध (१.१) unprecedented
यशसेयशस् (४.१) for fame
हिहि for
पुंसाम्पुंस् (६.३) for men
अनन्यसाधारणम्अनन्यसाधारण (१.१) extraordinary
एवएव only
कर्मकर्मन् (१.१) an act
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्मि न्सु रा णां वि या भ्यु पा ये
वै ना मा स्त्र तिः कृ ती त्वम्
प्य प्र सि द्धं से हि पुं सा
न्य सा धा मे र्म
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.