तद्गच्छ सिद्ध्यै कुरु देवकार्य-
मर्थोऽयमर्थान्तरभाव्य एव ।
अपेक्षते प्रत्ययमुत्तमं त्वां
बीजाङ्कुरः प्रागुदयादिवाम्भः ॥

अन्वयः AI तत् सिद्ध्यै गच्छ, देवकार्यम् कुरु। अयम् अर्थः अर्थान्तरभाव्यः एव। सः प्राक् उदयात् बीजाङ्कुरः अम्भः इव, उत्तमम् प्रत्ययम् त्वाम् अपेक्षते।
सञ्जीविनीटीका (मल्लिनाथः) तदिति ॥ तत्तस्मात्सिद्ध्यै कार्यसिद्ध्यर्थं गच्छ । देवकार्यं कुरु । आशिषि लोट् । अयमर्थः प्रयोजनमर्थान्तरभाव्यः कारणान्तरसाध्य एव । तच्च कारणान्तरं पार्वतीसंनिधानमिति भावः । `अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने ।` इति विश्वः । तथापि बीजसाध्योऽङ्कुरो बीजाङ्कुर उदयादुत्पतेः प्रागम्भ इव त्वामुत्तमं प्रत्ययं चरमं कारणमपेक्षते । `प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु` इत्यमरः (अमरकोशः ३.३.१५६ ) । तस्मादस्मिन्नर्थे तव चरमसहकारित्वादनन्यसाध्योऽयमर्थ इति भावः
Summary AI "Therefore, go for success and do the gods' work. This matter depends entirely on another cause (you). It awaits you, the best instrument, just as a sprout within a seed, before its emergence, awaits water."
सारांश AI अतः सिद्धि के लिए जाओ और देवकार्य संपन्न करो। यह कार्य तुम्हारे बिना संभव नहीं है, जैसे बीज का अंकुरण जल की अपेक्षा करता है।
पदच्छेदः AI
तत्तत् therefore
गच्छगच्छ (√गम् कर्तरि लोट् (परस्मै.) म.पु. एक.) go
सिद्ध्यैसिद्धि (४.१) for success
कुरुकुरु (√कृ कर्तरि लोट् (परस्मै.) म.पु. एक.) do
देवकार्यम्देवकार्य (२.१) the work of the gods
अर्थःअर्थ (१.१) purpose
अयम्इदम् (१.१) this
अर्थान्तरभाव्यःअर्थअन्तरभाव्य (१.१) dependent on another cause
एवएव only
अपेक्षतेअपेक्षते (अप√ईक्ष् कर्तरि लट् (आत्मने.) प्र.पु. एक.) awaits
प्रत्ययम्प्रत्यय (२.१) cause
उत्तमम्उत्तम (२.१) the best
त्वाम्युष्मद् (२.१) you
बीजाङ्कुरःबीजअङ्कुर (१.१) the sprout from a seed
प्राक्प्राच् before
उदयात्उदय (५.१) its emergence
इवइव like
अम्भःअम्भस् (२.१) water
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
द्ग च्छ सि द्ध्यै कु रु दे का र्य
र्थो ऽय र्था न्त भा व्य
पे क्ष ते प्र त्य मु त्त मं त्वां
बी जा ङ्कु रः प्रा गु या दि वा म्भः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.