गुरोर्नियोगाच्च नगेन्द्रकन्या
स्थाणुं तपस्यन्तमधित्यकायाम् ।
अन्वास्त इत्यप्सरसां मुखेभ्यः
श्रुतं मया मत्प्रणिधिः स वर्गः ॥

अन्वयः AI च गुरोः नियोगात् नगेन्द्रकन्या अधित्यकायाम् तपस्यन्तम् स्थाणुम् अन्वास्ते इति मया अप्सरसाम् मुखेभ्यः श्रुतम्। सः वर्गः मत्प्रणिधिः अस्ति।
सञ्जीविनीटीका (मल्लिनाथः) गुरोरिति ॥ नगेन्द्रकन्या पार्वती च गुरोः पितुर्नियोगाच्छासनादधित्यकायां हिमाद्रेरुर्ध्वभूमौ । `भूमिरुर्ध्वमधित्यका` इत्यमरः । `उपाधिभ्यां त्यकन्नासन्नारुढयोः` इति त्यकन्प्रत्ययः । तपस्यन्तं तपश्चरन्तम् `कर्मणो रोमन्थतपोभ्यां वर्तिचरोः` (अष्टाध्यायी ३.१.१५ ) इति क्यङप्रत्ययः । ततः शतृप्रत्ययः । स्थाणुं रुद्रमध्वास्ते । उपास्ते इत्यर्थः । इतीदं मयाप्सरसां मुखेभ्यः श्रुतम् । न चैतदैतिह्यमात्रमित्याह- स वर्गः सोऽप्सरसां गणो मत्प्रणिधिर्मम गूढचरः । `प्रणिधिः प्रार्थने चर` इति यादवः
Summary AI "And I have heard from the Apsaras—that group serves as my spies—that by her father's command, the daughter of the mountain king is attending upon Shiva, who is practicing austerities on a plateau."
सारांश AI अपनी गुप्तचर अप्सराओं से मैंने सुना है कि पिता की आज्ञा से पार्वती पर्वत शिखर पर तपस्या कर रहे शिव की सेवा में उपस्थित रहती हैं।
पदच्छेदः AI
गुरोःगुरु (६.१) of her father
नियोगात्नियोग (५.१) from the command
and
नगेन्द्रकन्यानगइन्द्रकन्या (१.१) the daughter of the lord of mountains
स्थाणुम्स्थाणु (२.१) Shiva
तपस्यन्तम्तपस्यत् (√तपस्य+शतृ, २.१) who is practicing austerities
अधित्यकायाम्अधित्यका (७.१) on a plateau
अन्वास्तेअन्वास्ते (अनु√आस् कर्तरि लट् (आत्मने.) प्र.पु. एक.) attends upon
इतिइति that
अप्सरसाम्अप्सरस् (६.३) of the Apsaras
मुखेभ्यःमुख (५.३) from the mouths
श्रुतम्श्रुत (√श्रु+क्त, १.१) has been heard
मयाअस्मद् (३.१) by me
मत्प्रणिधिःमद्प्रणिधि (१.१) my spies
सःतद् (१.१) that
वर्गःवर्ग (१.१) group
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
गु रो र्नि यो गा च्च गे न्द्र न्या
स्था णुं स्य न्त धि त्य का याम्
न्वा स्त त्य प्स सां मु खे भ्यः
श्रु तं या त्प्र णि धिः र्गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.