Loading data... On slow networks this could take a few minutes.
100%

अमी हि वीर्यप्रभवं भवस्य
जयाय सेनान्यमुशन्ति देवाः ।
स च त्वदेकेषुनिपातसाध्यो
ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा ॥

अन्वयः AI हि अमी देवाः जयाय भवस्य वीर्यप्रभवम् सेनान्यम् उशन्ति। सः च ब्रह्मणि योजितात्मा सन् ब्रह्माङ्गभूः अस्ति। अतः सः त्वदेकेषुनिपातसाध्यः अस्ति।
सञ्जीविनीटीका (मल्लिनाथः) अमी इति ॥ हि यस्मादमी देवा जयाय शत्रुजयार्थं भवस्य हरस्य वीर्यप्रभवं तेजः संभूतं सेनापतिमुशन्ति कामयन्ते । `वश कान्तौ` इति धातोर्लट् । ब्रह्मणां सद्योजातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्गभूः । कृतमन्त्रन्यास इत्यर्थः । ब्रह्मणि निजतत्त्वे `वेदस्तत्वं तपो ब्रह्म ब्रह्मा` इत्युभयत्राप्यमरः । योजितात्मा नियमितचित्तः । मन्त्रन्यासपूर्वंकं ब्रह्म ध्यायन्नित्यर्थः । स भवश्च त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः । अनन्यसाध्योऽयमस्मिन्नवसर इति भावः
Summary AI "For victory, these gods desire a general who will be born from the seed of Shiva. And that Shiva, a celibate with his soul concentrated on the Supreme Spirit, is to be conquered by the fall of a single arrow from you."
सारांश AI देवता विजय के लिए शिव के तेज से उत्पन्न सेनापति चाहते हैं। वह केवल तुम्हारे बाणों से संभव है, क्योंकि शिव अभी समाधि में लीन हैं।
पदच्छेदः AI
अमीअदस् (१.३) these
हिहि for
वीर्यप्रभवम्वीर्यप्रभव (२.१) the source of whose seed
भवस्यभव (६.१) of Shiva
जयायजय (४.१) for victory
सेनान्यम्सेनानी (२.१) a general
उशन्तिउशन्ति (√वश् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) desire
देवाःदेव (१.३) gods
सःतद् (१.१) he (Shiva)
and
त्वदेकेषुनिपातसाध्यःत्वद्एकइषुनिपातसाध्य (१.१) to be conquered by the fall of a single arrow of yours
ब्रह्माङ्गभूःब्रह्माङ्गभू (१.१) a celibate
ब्रह्मणिब्रह्मन् (७.१) in the Supreme Spirit
योजितात्मायोजितआत्मन् (१.१) one whose soul is concentrated
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मी हि वी र्य प्र वं स्य
या से ना न्य मु न्ति दे वाः
त्व दे के षु नि पा सा ध्यो
ब्र ह्मा ङ्ग भू र्ब्र ह्म णि यो जि ता त्मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.