Loading data... On slow networks this could take a few minutes.
100%

आशंसता बाणगतिं वृषाङ्के
कार्यं त्वया नः प्रतिपन्नकल्पम् ।
निबोध यज्ञांशभुजामिदानी-
मुच्चैर्द्विषामीप्सितमेतदेव ॥

अन्वयः AI वृषाङ्के बाणगतिम् आशंसता त्वया नः कार्यम् प्रतिपन्नकल्पम् अस्ति। इदानीम् उच्चैः द्विषाम् यज्ञांशभुजाम् एतत् एव ईप्सितम् निबोध।
सञ्जीविनीटीका (मल्लिनाथः) आशंसतेति ॥ वृषाङ्के हरे बाणगतिं बाणप्रसरमाशंसता कथयता । `कुर्यां हरस्यापि पिनाकपाणेः` (३/१०) इत्यादिनेति शेषः । त्वया नोऽस्माकं कार्यं प्रतिपन्नकल्पमङ्गीकृतप्रायम् । `ईषदसमात्पौ-` इत्यादिना कल्पप्रत्ययः । कथमेतदित्याह- इदानीमुच्चैरुन्नता द्विषो येषां तेषामुच्चैर्द्विषां यज्ञांशभुजां देवानाम् । एतेन द्विषल्लुप्तयज्ञभागत्वं सूच्यते । ईप्सितमाप्तुमिष्टमेतदेव हरे बाणप्रयोगरुपमेव निबोध । हरायत्तं बुद्ध्यस्वेत्यर्थः । `बुध बोधने` इति धातोर्लोट् । अत्र `आशंसता प्रार्थयमानेन` इति नाथव्याख्यानमनाथव्याख्यानम् । आङ्पूर्वयोः शास्तिशंसत्योरिच्छार्थत्वे आत्मनेपदनियमात् । याच्‌ञार्थत्वस्याप्रामाणिकत्वात् । `कुर्यां हरस्यापि-` (३/१०) इत्यत्रानयोरभावादयोगाच्चेति
Summary AI "With you promising that your arrow can reach even the bull-marked Shiva, our task is as good as accomplished. Now, understand this: the desired aim of the gods, who are greatly oppressed by their enemies, is this very thing."
सारांश AI शिव पर बाण चलाने का संकल्प करके तुमने हमारा कार्य लगभग सिद्ध ही कर दिया है। देवताओं का जो अभीष्ट है, अब उसे विस्तार से सुनो।
पदच्छेदः AI
आशंसताआशंसत् (आ√शंस्+शतृ, ३.१) by you who are promising
बाणगतिम्बाणगति (२.१) the reach of your arrow
वृषाङ्केवृषअङ्क (७.१) on Shiva
कार्यम्कार्य (१.१) the task
त्वयायुष्मद् (३.१) by you
नःअस्मद् (६.३) our
प्रतिपन्नकल्पम्प्रतिपन्नकल्प (१.१) is as good as accomplished
निबोधनिबोध (√बुध् कर्तरि लोट् (परस्मै.) म.पु. एक.) understand
यज्ञांशभुजाम्यज्ञअंशभुज् (६.३) of the partakers of the sacrificial shares (the gods)
इदानीम्इदानीम् now
उच्चैःउच्चैस् greatly
द्विषाम्द्विष् (६.३) of the enemies
ईप्सितम्ईप्सित (√आप्+सन्+क्त, १.१) the desired thing
एतत्एतद् (१.१) this
एवएव itself
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
शं ता बा तिं वृ षा ङ्के
का र्यं त्व या नः प्र ति न्न ल्पम्
नि बो ज्ञां भु जा मि दा नी
मु च्चै र्द्वि षा मी प्सि मे दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.