Loading data... On slow networks this could take a few minutes.
100%

सर्वं सखे त्वय्युपपन्नमेत-
दुभे ममास्त्रे कुलिशं भवांश्च ।
वज्रं तपोवीर्यमहत्सु कुण्ठम्
त्वं सर्वतोगामि च साधकं च ॥

अन्वयः AI हे सखे, एतत् सर्वम् त्वयि उपपन्नम्। कुलिशम् भवान् च उभे मम अस्त्रे स्तः। वज्रम् तपोवीर्यमहत्सु कुण्ठम् भवति। त्वम् च सर्वतोगामि साधकम् च असि।
सञ्जीविनीटीका (मल्लिनाथः) सर्वमिति ॥ हे सखे ! सखे इति संबोधनं गौरवार्थम् । सर्वमेतत्त्वय्युपपन्नं सिद्धम् । मम कुलिशं वज्रं भवांश्चोभे अस्त्रे । तत्र वज्रं तपोवीर्येण तपोबलेन महत्सु प्रबलेषु कुण्ठं प्रतिबद्धप्रसरम् । त्वमस्त्रं पर्वतोगामि च साधकं च । तापसेष्वप्यकुण्ठमित्यर्थः ॥ ३.१२ ।
Summary AI "O friend, all this is fitting for you. The thunderbolt and you are my two weapons. But the thunderbolt is ineffective against those great in ascetic power, whereas you are all-pervading and always effective."
सारांश AI हे मित्र! तुमने जो कहा वह उचित ही है। वज्र और तुम, ये दोनों ही मेरे शस्त्र हो। किंतु वज्र तपस्वियों पर कुंठित हो जाता है, जबकि तुम सर्वत्र सफल हो।
पदच्छेदः AI
सर्वम्सर्व (१.१) all
सखेसखि (८.१) O friend
त्वयियुष्मद् (७.१) in you
उपपन्नम्उपपन्न (उप√पद्+क्त, १.१) is fitting
एतत्एतद् (१.१) this
उभेउभ (१.२) both
ममअस्मद् (६.१) my
अस्त्रेअस्त्र (१.२) weapons
कुलिशम्कुलिश (१.१) the thunderbolt
भवान्भवत् (१.१) you
and
वज्रम्वज्र (१.१) the thunderbolt
तपोवीर्यमहत्सुतपस्वीर्यमहत् (७.३) against those great in ascetic power and valor
कुण्ठम्कुण्ठ (१.१) is blunt
त्वम्युष्मद् (१.१) you
सर्वतोगामिसर्वतस्गामिन् (१.१) go everywhere
and
साधकम्साधक (१.१) effective
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
र्वं खे त्व य्यु न्न मे
दु भे मा स्त्रे कु लि शं वां श्च
ज्रं पो वी र्य त्सु कु ण्ठ
म्त्वं र्व तो गा मि सा कं
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.