तव प्रसादात्कुसुमायुधोऽपि
सहायमेकं मधुमेव लब्ध्वा ।
कुर्यां हरस्यापि पिनाकपाणे-
र्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥

अन्वयः AI तव प्रसादात् कुसुमायुधः अपि अहम् एकम् मधुम् एव सहायम् लब्ध्वा, पिनाकपाणेः हरस्य अपि धैर्यच्युतिम् कुर्याम्। अन्ये धन्विनः मम के गण्यन्ते?
सञ्जीविनीटीका (मल्लिनाथः) तवेति ॥ किं बहुना, तव प्रसादादनुग्रहात्कुसुमायुधोऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधुं वसन्तमेव सहायं लब्ध्वा पिनाकः पाणौ यस्य स पिनाकपाणिः । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ` । हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यहानिं कुर्याम् । कर्तु शक्नुयामित्यर्थः । `शकि लिङ् च` (अष्टाध्यायी ३.३.१७२ ) इति शक्यार्थे लिङ् । अन्ये धन्विनो धनुर्भृते मम के । न केऽपीत्यर्थः । किंशब्दः कुत्सायाम् । `कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते` इति शाश्वतः
Summary AI "By your grace, even I, the flower-arrowed one, having only Spring as my companion, can cause even the Pinaka-wielding Shiva to lose his composure. What account are other archers to me?"
सारांश AI आपकी कृपा से वसंत को अपना एकमात्र सहायक पाकर मैं पिनाकधारी शिव का भी धैर्य भंग कर सकता हूँ, फिर अन्य धनुर्धारियों की क्या बिसात?
पदच्छेदः AI
तवयुष्मद् (६.१) your
प्रसादात्प्रसाद (५.१) by the grace
कुसुमायुधःकुसुमआयुध (१.१) the one with flower-arrows (I, Kamadeva)
अपिअपि even
सहायम्सहाय (२.१) as a companion
एकम्एक (२.१) only one
मधुम्मधु (२.१) Spring (Madhu)
एवएव only
लब्ध्वालब्ध्वा (√लभ्+क्त्वा) having obtained
कुर्याम्कुर्याम् (√कृ कर्तरि विधिलिङ् (परस्मै.) उ.पु. एक.) I can cause
हरस्यहर (६.१) of Shiva
अपिअपि even
पिनाकपाणेःपिनाकपाणि (६.१) of the one holding the Pinaka bow
धैर्यच्युतिम्धैर्यच्युति (२.१) the loss of composure
केकिम् (१.३) what
ममअस्मद् (६.१) to me
धन्विनःधन्विन् (१.३) archers
अन्येअन्य (१.३) other
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
प्र सा दा त्कु सु मा यु धो ऽपि
हा मे कं धु मे ब्ध्वा
कु र्यां स्या पि पि ना पा णे
र्धै र्य च्यु तिं के न्वि नो ऽन्ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.