Loading data... On slow networks this could take a few minutes.
100%

तस्मिन्मघोनस्त्रिदशान्विहाय
सहस्रमक्ष्णां युगपत्पपात ।
प्रयोजनापेक्षितया प्रभूणां
प्रायश्चलं गौरवमाश्रितेषु ॥

अन्वयः AI मघोनः अक्ष्णाम् सहस्रम् त्रिदशान् विहाय तस्मिन् युगपत् पपात। हि प्रभूणाम् गौरवम् आश्रितेषु प्रयोजनापेक्षितया प्रायः चलम् भवति।
सञ्जीविनीटीका (मल्लिनाथः) तस्मिन्निति । मघोन इन्द्रस्याक्ष्णां सहस्त्रं त्रिरावृत्ता दशपरिमाणमेषामिति त्रिदशान्देवान् । `संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये` इति बहुव्रीहिः । `बहुव्रीहौ संख्येये-` इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्तवा तस्मिन्कामे युगपत्पपात । सहस्त्रेणाक्षिभिरद्राक्षीदित्त्यादरातिशयोक्तिः । ननु सुचिरपरित्यगेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्क्यार्थान्तरं न्यस्यति- प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थित्वेन हेतुना चलं चञ्चलम् । फलतन्त्राः प्रभवो न तु गुणतन्त्रा इति भावः
Summary AI Leaving aside the other gods, Indra's thousand eyes fell simultaneously upon Kamadeva. For the regard of masters towards their dependents is usually fickle, being dictated by the needs of the moment.
सारांश AI इंद्र की एक हजार आँखें एक साथ कामदेव पर टिकीं। स्वामियों का आश्रितों के प्रति स्नेह प्रायः कार्य सिद्धि की आवश्यकता पर निर्भर करता है।
पदच्छेदः AI
तस्मिन्तद् (७.१) on him (Kamadeva)
मघोनःमघवन् (६.१) of Indra
त्रिदशान्त्रिदश (२.३) the gods
विहायविहाय (वि√हा+ल्यप्) leaving aside
सहस्रम्सहस्र (१.१) a thousand
अक्ष्णाम्अक्षि (६.३) of eyes
युगपत्युगपत् simultaneously
पपातपपात (√पत् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) fell
प्रयोजनापेक्षितयाप्रयोजनअपेक्षित (३.१) due to the need for a purpose
प्रभूणाम्प्रभु (६.३) of masters
प्रायःप्रायस् usually
चलम्चल (१.१) fickle
गौरवम्गौरव (१.१) respect
आश्रितेषुआश्रित (आ√श्रि+क्त, ७.३) towards dependents
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्मि न्म घो स्त्रि शा न्वि हा
स्र क्ष्णां यु त्प पा
प्र यो ना पे क्षि या प्र भू णां
प्रा श्च लं गौ मा श्रि ते षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.