Loading data... On slow networks this could take a few minutes.
100%

स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।
यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥

अन्वयः AI स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते यौ तु स्वप्नावबोधौ, तौ भूतानाम् प्रलयोदयौ भवतः।
सञ्जीविनीटीका (मल्लिनाथः) स्वकालेति ॥ स्वकालस्य परिमाणेन `चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते` इत्युक्तरुपेण व्यस्तं विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि `अचतुर-` आदिसूत्रेण रात्रौ च दिवा च रत्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि `दोषामन्यमहः` `दिवामन्या रात्रिः` इत्यादौ इवत्राऽपि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टी । यदाहुः- `यदा स देवो जागर्ति तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते ॥` इति । एतच्च दैवेदिनसृष्टिप्रलयाभिप्रायकं महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात्
Summary AI For you, whose day and night are measured by your own timescale, your sleep and waking are, for all beings, their dissolution and creation respectively.
सारांश AI अपने काल-मान से दिन और रात का विभाजन करने वाले आपके सोने और जागने से ही इस संसार का क्रमशः प्रलय और उदय होता है।
पदच्छेदः AI
स्वकालपरिमाणेनस्वकालपरिमाण (३.१) by the measure of your own time
व्यस्तरात्रिंदिवस्यव्यस्तरात्रिदिव (६.१) of you whose night and day are arranged
तेयुष्मद् (६.१) your
यौयद् (१.२) which two
तुतु indeed
स्वप्नावबोधौस्वप्नअवबोध (१.२) sleep and waking
तौतद् (१.२) those two
भूतानाम्भूत (६.३) of beings
प्रलयोदयौप्रलयउदय (१.२) dissolution and creation
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्व का रि मा णे
व्य स्त रा त्रिं दि स्य ते
यौ तु स्व प्ना बो धौ तौ
भू ता नां प्र यो यौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.