Loading data... On slow networks this could take a few minutes.
100%

स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥

अन्वयः AI भिन्नमूर्तेः सिसृक्षया ते आत्मभागौ स्त्रीपुंसौ स्तः। प्रसूतिभाजः सर्गस्य तौ एव पितरौ स्मृतौ।
सञ्जीविनीटीका (मल्लिनाथः) स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रीपुंसौ । `अचतुर-` इत्यादिनाच्प्रत्ययान्तो निपातः । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ । `आत्मा जावे धृतौ देहे स्वभावे परमात्मानि` इति विश्वः । तावेव भागौ प्रसूतिभाज उत्पत्तिभाजः । सृज्यत इति सर्गस्तस्य । निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । `पिता` `मात्रा` इत्येकशेषः । स्मृतौ । वृद्धैरिति शेषः । अत्र मनु- `द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥` इति
Summary AI With the desire to create, you, whose form was divided, became male and female, two parts of your own self. Those two are known as the parents of all procreative creation.
सारांश AI सृष्टि की इच्छा से आपने अपने शरीर के जो स्त्री और पुरुष—ये दो भाग किए, वे ही संपूर्ण चराचर जगत के माता-पिता माने जाते हैं।
पदच्छेदः AI
स्त्रीपुंसौस्त्रीपुंस् (१.२) female and male
आत्मभागौआत्मन्भाग (१.२) parts of yourself
तेयुष्मद् (६.१) your
भिन्नमूर्तेःभिन्नमूर्ति (६.१) of you whose form is divided
सिसृक्षयासिसृक्षा (√सृज्+सन्+अ+टाप्, ३.१) with the desire to create
प्रसूतिभाजःप्रसूतिभाज् (६.१) of the procreative
सर्गस्यसर्ग (६.१) of creation
तौतद् (१.२) those two
एवएव indeed
पितरौपितृ (१.२) the parents
स्मृतौस्मृत (√स्मृ+क्त, १.२) are remembered
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्त्री पुं सा वा त्म भा गौ ते
भि न्न मू र्तेः सि सृ क्ष या
प्र सू ति भा जः र्ग स्य
ता वे पि रौ स्मृ तौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.