इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे ।
मनस्याहितकर्तव्यास्तेऽपि प्रतिययुर्दिवम् ॥

अन्वयः AI विश्वयोनिः इति विबुधान् व्याहृत्य तिरोदधे। मनसि आहितकर्तव्याः ते अपि दिवम् प्रतिययुः।
सञ्जीविनीटीका (मल्लिनाथः) इतीति ॥ विश्वस्य योनिः कारणम् । `योनिः स्त्रीणां भगस्थाने कारणं तान्त्रिके पणे` इति वैजयन्ती । बिबुधान्सुरानिति व्याहृत्याभिधाय तिरोदधोऽन्तर्हितवान् । ते देवा अपि मनस्याहितं कर्तव्यं यैस्ते तथोक्ताः सन्ता दिवं स्वर्गं ययुः प्रापुः
Summary AI Having thus spoken to the gods, Brahma, the source of the universe, disappeared. The gods, with their duty fixed in their minds, also returned to heaven.
सारांश AI देवताओं से ऐसा कहकर ब्रह्मा अंतर्धान हो गए और वे देवता भी अपने मन में कर्तव्य का भार लिए स्वर्ग की ओर लौट गए।
पदच्छेदः AI
इतिइति thus
व्याहृत्यव्याहृत्य (वि+आ√हृ+ल्यप्) having spoken
विबुधान्विबुध (२.३) to the gods
विश्वयोनिःविश्वयोनि (१.१) the source of the universe (Brahma)
तिरोदधेतिरोदधे (तिरस्√धा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) disappeared
मनसिमनस् (७.१) in their minds
आहितकर्तव्याःआहित (आ√धा+क्त)कर्तव्य (√कृ+तव्यत्, १.३) those who had fixed their duty
तेतद् (१.३) they
अपिअपि also
प्रतिययुःप्रतिययुः (प्रति√इ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) returned
दिवम्दिव् (२.१) to heaven
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति व्या हृ त्य वि बु धा
न्वि श्व यो नि स्ति रो धे
स्या हि र्त व्या
स्ते ऽपि प्र ति यु र्दि वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.