तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः ।
मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः ॥

अन्वयः AI शितिकण्ठस्य आत्मा तस्य सैनापत्यम् उपेत्य वः सुरबन्दीनाम् वेणीः वीर्यविभूतिभिः मोक्ष्यते।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति ॥ तस्य शितिकण्ठस्याष्टमूर्तेरात्मा पुत्रः इत्यर्थः । `आत्मा वै पुत्रनामासि` इति श्रुतेः । वो युष्माकं सेनापतेर्भावः सैनापत्यम् `पत्यन्तपुरोहितादिभ्यो यक्` (अष्टाध्यायी ५.१.१२८ ) इति यक्प्रत्ययः । उपेत्य प्राप्य वीर्यविभूतिभिः शौर्यसंपत्तिभिः सुरवन्दीनां वेणीर्मोक्ष्यते विस्रंसयिष्यति । तारकासुरं हनिष्यतीति भावः
Summary AI The son of the blue-throated Shiva, upon becoming your general, will release the braids of the captive celestial women with the splendors of his valor.
सारांश AI नीलकंठ शिव का वह पुत्र आप सबका सेनापति बनकर अपने पराक्रम से असुरों द्वारा बंदी बनाई गई देव-स्त्रियों की वेणियों को मुक्त कराएगा।
पदच्छेदः AI
तस्यतद् (६.१) his
आत्माआत्मन् (१.१) the son
शितिकण्ठस्यशितिकण्ठ (६.१) of the blue-throated one (Shiva)
सैनापत्यम्सेनापत्य (२.१) the generalship
उपेत्यउपेत्य (उप√इ+ल्यप्) having obtained
वःयुष्मद् (६.३) of you
मोक्ष्यतेमोक्ष्यते (√मुच् कर्तरि लृट् (आत्मने.) प्र.पु. एक.) will release
सुरबन्दीनाम्सुरबन्दी (६.३) of the captive celestial women
वेणीःवेणी (२.३) the braids
वीर्यविभूतिभिःवीर्यविभूति (३.३) by the splendors of his valor
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्या त्मा शि ति ण्ठ स्य
सै ना त्य मु पे त्य वः
मो क्ष्य ते सु न्दी नां
वे णी र्वी र्य वि भू ति भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.