उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम् ।
सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ॥

अन्वयः AI उभयोः आहितं वीर्यं वोढुं शंभोः सा मूर्तिः वा मम तदीया जलमयी मूर्तिः वा, उभे एव क्षमे (स्तः)।
सञ्जीविनीटीका (मल्लिनाथः) उभे इति ॥ उभयोः शंभोर्मम चाहितं निषिक्तं बीजं तेजो वोढुं सोढुं सा वोमा शंभोरष्टमूर्तेस्तस्येयं तदीया जलमयी मूर्तिर्वा मम । न तृतीयेत्यर्थः । वा शब्दो द्वन्द्वार्थे न त्वन्यार्थे । एतदेवोदाहृत्येत्थमेव व्याख्यातं गणव्याख्याने । अत्र दीपकालङ्कारः । प्राकरणिकयोरुमामहेश्वरयोरप्राकरणिकयोर्ब्रह्मजलमूर्त्योश्चौपम्यस्य गम्यत्वात् । यथाह भोजराजः- `प्रस्तुतानामप्रस्तुतानां चौपम्यस्य गम्यत्वे दीपकम्` इति । न चेयं तुल्योगिता तस्याः केवलप्रस्तुतविषत्वेन केवलाप्रस्तुतविषयत्वेन चोत्थानादिति
Summary AI "Only two are capable of bearing the potent energy deposited from their union: either that form of Shambhu himself (i.e., Uma), or my related form which is made of water (i.e., the river Ganga)."
सारांश AI शिव के तेज को धारण करने की शक्ति केवल दो में है—एक पार्वती में और दूसरी मेरी जलमयी मूर्ति (गंगा) में।
पदच्छेदः AI
उभेउभ (१.२) Both
एवएव only
क्षमेक्षम (१.२) are capable
वोढुम्वोढुम् (√वह्+तुमुन्) of bearing
उभयोःउभ (६.२) of both (Shiva and Uma)
वीर्यम्वीर्य (२.१) the energy
आहितम्आहित (आ√धा+क्त, २.१) deposited.
सातद् (१.१) That
वावा either
शंभोःशंभु (६.१) of Shambhu
तदीयातदीय (१.१) his
वावा or
मूर्तिःमूर्ति (१.१) form
जलमयीजलमय (१.१) watery
ममअस्मद् (६.१) my.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भे क्ष मे वो ढु
मु यो र्वी र्य मा हि तम्
सा वा शं भो स्त दी या वा
मू र्ति र्ज यी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.