उमारूपेण ते यूयं संयमस्तिमितं मनः ।
शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥

अन्वयः AI ते यूयम् उमारूपेण शंभोः संयमस्तिमितं मनः अयस्कान्तेन लोहवत् आक्रष्टुं यतध्वम्।
सञ्जीविनीटीका (मल्लिनाथः) उमेति ॥ ते कार्यार्थिनो यूयं संयमस्तिमितं समाधिनिश्चलं शंभोर्मन उमारुपेणोमासौन्दर्येण `रुपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥` इति विश्वः । अयस्कान्तेन मणिविशेषेण । `कस्कादिषु च` (अष्टाध्यायी ८.३.४८ ) इति सकारः । लोहवदयोधातुमिव। `तेन तुल्यं क्रिया चेद्वतिः` (अष्टाध्यायी ५.१.११५ ) इति वतिप्रत्ययो मृग्यः आक्रष्टुमाहर्तुं यतध्वमुद्युक्ता भवत
Summary AI "Therefore, you gods should strive to attract the mind of Shambhu, which is stilled by ascetic restraint, by means of Uma's beauty, just as a magnet attracts iron."
सारांश AI तुम सब उमा के सौंदर्य के माध्यम से शिव के एकाग्र मन को अपनी ओर खींचने का यत्न करो, जैसे चुंबक लोहे को खींचता है।
पदच्छेदः AI
उमारूपेणउमारूप (३.१) by means of Uma's form,
तेतद् (१.३) those
यूयम्युष्मद् (१.३) you
संयमस्तिमितम्संयमस्तिमित (√स्तिम्+क्त, २.१) which is stilled by ascetic restraint,
मनःमनस् (२.१) the mind
शंभोःशंभु (६.१) of Shambhu
यतध्वम्यतध्वम् (√यत् कर्तरि लोट् (आत्मने.) म.पु. बहु.) should strive
आक्रष्टुम्आक्रष्टुम् (आ√कृष्+तुमुन्) to attract,
अयस्कान्तेनअयस्कान्त (३.१) by a magnet
लोहवत्लोहवत् like iron.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा रू पे ते यू यं
सं स्ति मि तं नः
शं भो र्य ध्व मा क्र ष्टु
स्का न्ते लो वत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.