संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः ।
अंशाद् ऋते निषिक्तस्य नीललोहितरेतसः ॥

अन्वयः AI नीललोहितरेतसः निषिक्तस्य अंशात् ऋते, संयुगे उद्यतं सांयुगीनं तं कः प्रसहेत?
सञ्जीविनीटीका (मल्लिनाथः) संयुग इति ॥ संयुगे युद्ध उद्यन्तं व्याप्रियमाणम् । संयुगे साधुं सांयुगीनम् । `प्रतिजनादिभ्यः खञ्` (अष्टाध्यायी ४.४.९९ ) इति खञ्प्रत्ययः । तं तारकं निषिक्तस्य क्वचित्क्षेत्रे क्षरितस्य । `नीलः कण्ठे लोहितश्च केशेष्विति नीललोहित इति पुराणम् ।` इति स्वामी । तस्य नीललोहितस्य धूर्जटेरेतसः शुक्रस्यांशादृतेंऽशं विनान्यः कः प्रसहेताभिभवेत् । प्रसहनमभिभवः` इति वृत्तिकारः
Summary AI "Who can withstand that warrior when he is ready for battle, except for an offspring created from a part of the seed of the Blue-and-Red one (Shiva)?"
सारांश AI रणकुशल उस असुर का युद्ध में भगवान शिव के अंश से उत्पन्न पुत्र के अतिरिक्त अन्य कोई सामना नहीं कर सकता।
पदच्छेदः AI
संयुगेसंयुग (७.१) In battle,
सांयुगीनम्सांयुगीन (२.१) the warrior
तम्तद् (२.१) him
उद्यतम्उद्यत (उद्√यम्+क्त, २.१) ready,
प्रसहेतप्रसहेत (प्र√सह् कर्तरि विधिलिङ् (आत्मने.) प्र.पु. एक.) can withstand?
कःकिम् (१.१) Who
अंशात्अंश (५.१) from a part
ऋतेऋते except
निषिक्तस्यनिषिक्त (नि√सिच्+क्त, ६.१) infused
नीललोहितरेतसःनीललोहितरेतस् (६.१) from the seed of the Blue-and-Red one (Shiva).
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं यु गे सां यु गी नं
मु द्य तं प्र हे कः
अं शा दृ ते नि षि क्त स्य
नी लो हि रे सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.