वृतं तेनेदमेव प्राङ्मया चास्मै प्रतिश्रुतम् ।
वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥

अन्वयः AI प्राक् तेन इदम् एव वृतम्, मया च अस्मै प्रतिश्रुतम्। हि तत् तपः लोकान् दग्धुम् अलम् (आसीत्), (तत्) वरेण शमितम्।
सञ्जीविनीटीका (मल्लिनाथः) वृतमिति ॥ प्राक्पुर्वं तेनासुरेणेदमेव देवैरवध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । `प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता` (अष्टाध्यायी १.४.४० ) इति संप्रदानत्वाच्चतुर्थी । कर्तव्यं चैतदित्याह-- लोकान्दग्धुमलं शक्तम् । `पर्यात्पिवचनेष्वलमर्थेषु` इति तुमुन्प्रत्ययः । तस्य तपस्तत्तपो वरेण वरदानेन शमितमिति शेषः
Summary AI "Formerly, this very boon was chosen by him and promised to him by me. Indeed, his penance was powerful enough to burn the worlds, and it was only pacified by the granting of this boon."
सारांश AI उसने पहले यही वर माँगा था और मैंने उसे वचन दिया था। वरदान देकर ही उसकी लोकों को जलाने वाली तपस्या को शांत किया गया था।
पदच्छेदः AI
वृतम्वृत (√वृ+क्त, १.१) was chosen.
तेनतद् (३.१) By him
इदम्इदम् (१.१) this
एवएव very (boon)
प्राक्प्राच् Formerly,
मयाअस्मद् (३.१) by me
and
अस्मैइदम् (४.१) to him
प्रतिश्रुतम्प्रतिश्रुत (प्रति√श्रु+क्त, १.१) was promised.
वरेणवर (३.१) By the boon
शमितम्शमित (√शम्+णिच्+क्त, १.१) was pacified.
लोकान्लोक (२.३) the worlds
अलम्अलम् capable of
दग्धुम्दग्धुम् (√दह्+तुमुन्) burning
हिहि Indeed,
तत्तद् (१.१) that
तपःतपस् (१.१) penance.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वृ तं ते ने मे प्रा
ङ्म या चा स्मै प्र ति श्रु तम्
रे मि तं लो का
लं ग्धुं हि त्त पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.