Loading data... On slow networks this could take a few minutes.
100%

यदमोघमपामन्तरुप्तं बीजमज त्वया ।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥

अन्वयः AI अज, त्वया अपाम् अन्तः यत् अमोघम् बीजम् उप्तम्, चराचरम् विश्वम् अतः जातम्। त्वम् तस्य प्रभवः गीयसे।
सञ्जीविनीटीका (मल्लिनाथः) यदिति ॥ न जायत इत्यजः । हे अज, अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुप्तं निक्षिप्तं । `मुक्तम्` इति पाठे विसृष्टमित्यर्थः । `शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च` इत्यमरः (अमरकोशः २.६.६२ ) । अतस्ते बीजाच्चराचरं स्थावरजङ्गमात्मकम् । समाहारे द्वन्द्वैकवद्भावः । विश्वं जगत् । उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे । `अदश्चराचरं विश्वं प्रसवस्तस्त गीयते` इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते । लोक इति शेषः । अत्र मनुः- अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥ इति ॥ २.५. ॥
Summary AI O Unborn One! The potent seed that was sown by you within the waters, from that this universe of moving and unmoving things arose. Therefore, you are celebrated as its ultimate source.
सारांश AI हे अजन्मा! आपके द्वारा जल में जो अमोघ बीज बोया गया था, उसी से इस चराचर विश्व की उत्पत्ति हुई है, अतः आप ही इसके आदि कारण कहे जाते हैं।
पदच्छेदः AI
यत्यद् (१.१) which
अमोघम्अमोघ (१.१) unfailing
अपाम्अप् (६.३) of the waters
अन्तःअन्तर् within
उप्तम्उप्त (√वप्+क्त, १.१) sown
बीजम्बीज (१.१) seed
अजअज (८.१) O unborn one
त्वयायुष्मद् (३.१) by you
अतःअतः from this
चराचरम्चरअचर (१.१) moving and unmoving
विश्वम्विश्व (१.१) universe
प्रभवःप्रभव (१.१) the source
तस्यतद् (६.१) of it
गीयसेगीयसे (√गै भावकर्मणोः लट् (आत्मने.) म.पु. एक.) you are sung
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मो पा न्त
रु प्तं बी त्व या
श्च रा रं वि श्वं
प्र स्त स्य गी से
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.