Loading data... On slow networks this could take a few minutes.
100%

नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥

अन्वयः AI प्राक् सृष्टेः केवलात्मने, पश्चात् गुणत्रयविभागाय भेदम् उपेयुषे, त्रिमूर्तये तुभ्यम् नमः।
सञ्जीविनीटीका (मल्लिनाथः) नम इति । हे भगवन्नित्यध्याहार्यं व्याख्येयम् । सृष्टेः प्राक् । `अन्यारात्-` इत्यादिनाञ्चूत्तरपदयोगे पञ्चमी । केवलात्मन एकरुपाय । `आत्मा वा इदमेक एवाग्रआसीत्` इति श्रुतेः `निर्णिते केवलमिति त्रिलिङ्गं त्वेक्कृत्स्नयोः` इत्यमरः (अमरकोशः १.४.३१ ) । पश्चात्सृष्टिप्रवृत्तिकाले । विभज्यतेऽनेनेति विभागः । गुणानां सत्त्वादीनां त्रयमेव विभागो यस्य तस्मै । `गुणाः सत्त्वं रजस्तमः` इत्यमरः (अमरकोशः १.४.३१ ) । भेदमुपाधिम् । सष्टृत्वादिकमित्यर्थः । उपेयषे प्रात्पवते । `उपेयिवाननाश्वाननूचानश्च` (अष्टाध्यायी ३.२.१०९ ) इति निपातः । अत एव त्रिमूर्तये ब्रह्मविष्णुरुद्ररुपिणे तुभ्यं नमः । `नमः स्वस्ति-` इत्यादिना चतुर्थिं । उक्तं च-- `नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च । तमोरुपाय संहारे त्रिरुपाय स्वयंभूवे ॥` इति ।. २.४ ॥
Summary AI Salutations to you, who possess three forms. Before creation, you exist as the one absolute spirit, and afterwards, you assume different forms for the division of the three Gunas (Sattva, Rajas, Tamas).
सारांश AI सृष्टि से पूर्व एकरूप रहने वाले तथा बाद में सृजन के लिए त्रिगुणों के आधार पर त्रिदेव के रूप में विभक्त होने वाले आपको नमस्कार है।
पदच्छेदः AI
नमःनमस् Salutations
त्रिमूर्तयेत्रिमूर्ति (४.१) to the one with three forms
तुभ्यम्युष्मद् (४.१) to you
प्राक्प्राच् before
सृष्टेःसृष्टि (५.१) creation
केवलात्मनेकेवलआत्मन् (४.१) to the one who is the sole spirit
गुणत्रयविभागायगुणत्रयविभाग (४.१) for the division into the three gunas
पश्चात्पश्चात् afterwards
भेदम्भेद (२.१) differentiation
उपेयुषेउपेयिवस् (उप√इ+क्वसु, ४.१) to the one who has attained
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्त्रि मू र्त ये तु भ्यं
प्रा क्सृ ष्टेः के ला त्म ने
गु त्र वि भा गा
श्चा द्भे मु पे यु षे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.