जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥

अन्वयः AI यत्र च अस्माकं जयाशा (आसीत्), तेन प्रतिघातोत्थितार्चिषा हरिचक्रेण अस्य कण्ठे निष्कः इव अर्पितः।
सञ्जीविनीटीका (मल्लिनाथः) जयाशेति ॥ किंचेति चार्थः । नूनमनेन वयं जेष्याम इति यत्र हरिचक्रेऽस्माकं जयाशा विजयाशंसा । आसीदिति शेषः । प्रतिघातेन प्रतिहत्योत्थितार्चिषोद्‌गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेनास्य तारकस्य कण्ठे निष्कमुरोभूषणमर्पितमिवेप्युत्प्रेक्षा । स्वयमयं निष्कमिव स्थितमित्यर्थः । तारकशिरश्छेदाय हरिणा चक्रं त्यक्तं तदपि नष्टशक्ति जातमिति भावः । `साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री` इत्यमरः
Summary AI And Vishnu's discus, in which our hope of victory lay, merely had its flames flare up upon striking him, and was placed on his neck like a golden ornament.
सारांश AI विजय की आशा रूपी विष्णु का चक्र उसके गले से टकराकर निष्फल हो गया और अब वहाँ केवल एक हार की भाँति शोभा दे रहा है।
पदच्छेदः AI
जयाशाजयआशा (१.१) The hope of victory,
यत्रयत्र in which
and
अस्माकम्अस्मद् (६.३) our
प्रतिघातोत्थितार्चिषाप्रतिघातउत्थित (उद्√स्था+क्त)अर्चिस् (३.१) by that whose flames flared up from the impact,
हरिचक्रेणहरिचक्र (३.१) the discus of Hari (Vishnu),
तेनतद् (३.१) by it,
अस्यइदम् (६.१) his
कण्ठेकण्ठ (७.१) on the neck
निष्कःनिष्क (१.१) a golden ornament
इवइव like
अर्पितःअर्पित (√ऋ+णिच्+क्त, १.१) was placed.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या शा त्र चा स्मा कं
प्र ति घा तो त्थि ता र्चि षा
रि क्रे ते ना स्य
ण्ठे नि ष्क वा र्पि तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.