Loading data... On slow networks this could take a few minutes.
100%

मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् ।
हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् ॥

अन्वयः AI सांप्रतं तद्वाप्यः मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलं हेमाम्भोरुहसस्यानां धाम (अस्ति)।
सञ्जीविनीटीका (मल्लिनाथः) मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्या भागीरथ्या दिग्वारणानां दिग्गजानां मदैराविलं कलुषं पयो जलमेव । शिष्यते इति शेषं शिष्टम् । कर्मण्यण्प्रत्ययः । `त्रिष्वन्यत्रोपयुज्यते` इति नपुंसकत्वम् । तर्हि कनककमलानि क्व गतानीत्याह- हेमेति । हेमाम्भोरुहाण्येव सस्यानि तेषां तु तस्य वाप्यस्तद्वाप्य एव धाम स्थानम् । सर्वाण्यप्युत्पाट्य स्वदीर्घिकास्वेव प्रतिरोपितवानित्यर्थः
Summary AI Now, his pleasure-ponds, containing the last remnants of the Mandakini's waters, muddied by the ichor of the celestial elephants, have become the abode for crops of golden lotuses.
सारांश AI मन्दाकिनी के बचे हुए जल और स्वर्ण-कमलों का स्थान अब उसकी वे बावड़ियाँ हैं, जो दिग्गजों के मद से मैली हो चुकी हैं।
पदच्छेदः AI
मन्दाकिन्याःमन्दाकिनी (६.१) of the Mandakini river,
पयःशेषम्पयस्शेष (२.१) the remaining water
दिग्वारणमदाविलम्दिक्वारणमदआविल (२.१) muddied by the ichor of the celestial elephants,
हेमाम्भोरुहसस्यानाम्हेमअम्भोरुहसस्य (६.३) for the crops of golden lotuses
तद्वाप्यःतद्वापी (१.३) his pleasure-ponds
धामधामन् (१.१) the abode
सांप्रतम्सांप्रतम् now.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्दा कि न्याः यः शे षं
दि ग्वा दा वि लम्
हे मा म्भो रु स्या नां
द्वा प्यो धा सां प्र तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.