उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।
आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥

अन्वयः AI तेन हरितां खुरैः क्षुण्णानि मेरुशृङ्गाणि उत्पाट्य स्वेषु वेश्मसु आक्रीडपर्वताः कल्पिताः।
सञ्जीविनीटीका (मल्लिनाथः) उत्पाट्येति ॥ तेन तारकेण हरितां सूर्याश्वनाम् । `हरित्सूर्ये च सूर्याश्वे वर्णे च हरिते दिशि` इति विश्वः । खुरैः शफैः क्षुण्णानि चूर्णितानि । एतेन तेषामत्यौन्नत्यं सूचितम् । मेरुश्रृङ्गाण्युत्पाट्य स्वेषु वेश्मसु । वैश्मस्विति बहुवचनेनास्य भुवनत्रयनिवासः सूचितः । आक्रीडन्त एष्वित्याक्रीडाः । ते च पर्वताः कल्पिताः कृताः
Summary AI Having uprooted the peaks of Mount Meru, which were trampled by the hooves of the Sun's horses, he has fashioned them into pleasure-mountains in his own palaces.
सारांश AI उसने सुमेरु पर्वत की उन चोटियों को उखाड़कर अपने घरों में क्रीड़ा-पर्वत बना लिया है, जो सूर्य के घोड़ों के खुरों से कुचली गई थीं।
पदच्छेदः AI
उत्पाट्यउत्पाट्य (उद्√पट्+णिच्+ल्यप्) Having uprooted
मेरुशृङ्गाणिमेरुशृङ्ग (२.३) the peaks of Meru,
क्षुण्णानिक्षुण्ण (√क्षुद्+क्त, २.३) trampled
हरिताम्हरित् (६.३) of the Sun's horses
खुरैःखुर (३.३) by the hooves,
आक्रीडपर्वताःआक्रीडपर्वत (१.३) pleasure-mountains
तेनतद् (३.१) by him
कल्पिताःकल्पित (√कॢप्+णिच्+क्त, १.३) have been fashioned
स्वेषुस्व (७.३) in his own
वेश्मसुवेश्मन् (७.३) palaces.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्पा ट्य मे रु शृ ङ्गा णि
क्षु ण्णा नि रि तां खु रैः
क्री र्व ता स्ते
ल्पि ताः स्वे षु वे श्म सु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.