वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।
चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥

अन्वयः AI हि संसुप्तः सः सुरबन्दीनां श्वाससाधारणानिलैः बाष्पशीकरवर्षिभिः चामरैः वीज्यते।
सञ्जीविनीटीका (मल्लिनाथः) वीज्यते इति ॥ हि यस्मात्कारणत्स तारकः संसुत्पः सन् । श्वाससाधारणो निश्वाससमानोऽनिलो योषां तैः ततोऽप्याधिक्ये निद्राभङ्गभयादिति भावः । वाष्पशीकरवर्षिभिः । तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरवन्दीनां सुरप्रग्रहस्त्रीणां संबन्धिभिः । `प्रग्रहापग्रहौ वन्द्याम्` इत्यमरः । चामरैर्वीज्यते
Summary AI Indeed, when he is sound asleep, he is fanned by chowries held by captive celestial women; these fans are moved by the wind of their sighs and sprinkle drops of their tears.
सारांश AI सोते समय उस असुर को बन्दी देव-स्त्रियाँ चँवर से हवा करती हैं, जो उनके आँसुओं और गर्म आहों से युक्त होती है।
पदच्छेदः AI
वीज्यतेवीज्यते (√वीज् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is fanned.
सःतद् (१.१) He
हिहि indeed,
संसुप्तःसंसुप्त (सम्√स्वप्+क्त, १.१) when sound asleep,
श्वाससाधारणानिलैःश्वाससाधारणअनिल (३.३) by the wind common with their sighs,
चामरैःचामर (३.३) by chowries
सुरबन्दीनाम्सुरबन्दी (६.३) of the captive celestial women,
बाष्पशीकरवर्षिभिःबाष्पशीकरवर्षिन् (३.३) which sprinkle drops of tears,
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वी ज्य ते हि सं सु प्तः
श्वा सा धा णा नि लैः
चा रैः सु न्दी नां
बा ष्प शी र्षि भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.