पुरे तावन्तमेवास्य तनोति रविरातपम् ।
दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥

अन्वयः AI अस्य पुरे रविः तावन्तम् एव आतपम् तनोति, यावत्-मात्रेण दीर्घिका-कमल-उन्मेषः साध्यते ।
सञ्जीविनीटीका (मल्लिनाथः) पुर इति ॥ अस्य तारकस्य पुरे रविः सूर्यस्तावन्तं तावन्मात्रमेवातपं तनोति । यावन्मात्रेण यावतैव३। यावती मात्रा मितिर्यस्य यावन्मात्रं तेन वा । अल्पपरिमाणेनेत्यर्थः । मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे` इत्यमरः । दीर्घिकासु क्रीडावापीषु कमलानामुन्मेषो विकासः साध्यते निष्पाद्यते कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः
Summary AI "In his (Taraka's) city, the sun provides only as much heat as is required for the lotuses in the long ponds to bloom." This illustrates Taraka's power to control even the sun.
सारांश AI सूर्य उसकी राजधानी में उतना ही ताप फैलाता है जितने मात्र से बावड़ियों के कमलों को खिलाया जा सके।
पदच्छेदः AI
पुरेपुर (७.१) in his city
तावन्तम्तावत् (२.१) only so much
एवएव only
अस्यइदम् (६.१) his
तनोतितनोति (√तन् कर्तरि लट् (परस्मै.) प्र.पु. एक.) spreads
रविःरवि (१.१) the sun
आतपम्आतप (२.१) heat
दीर्घिकाकमलोन्मेषःदीर्घिकाकमलउन्मेष (१.१) the blooming of lotuses in the ponds
यावन्मात्रेणयावत्मात्र (३.१) by which amount
साध्यतेसाध्यते (√साध् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is accomplished
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पु रे ता न्त मे वा स्य
नो ति वि रा पम्
दी र्घि का लो न्मे षो
या न्मा त्रे सा ध्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.