स द्विनेत्रो हरेश्चक्षुः सहस्रनयनाधिकम् ।
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥

अन्वयः AI सः द्वि-नेत्रः (अपि) हरेः सहस्र-नयन-अधिकम् चक्षुः वाचस्पतिः प्राञ्जलिः (सन्) जलज-आसनम् इदम् उवाच ।
सञ्जीविनीटीका (मल्लिनाथः) स इति ॥ हरेरिन्द्रस्य। `इन्द्रो दुश्च्यवनो हरिः` इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् । तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्‌द्विनेत्रम् । प्रसिद्धाच्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । स च वाचस्पतिः । कस्कादित्वादलुक्सत्वे । `षष्ठ्याः पतिपुत्र-` इत्यादिना सत्वमिति स्वामी । तन्न, छन्दोविषयत्वात् । प्राञ्जलिः सन्। जलजासनं ब्रह्माणमिदमुवाच चक्षुष्ट्वारोपस्य प्रकृतोपयोगात्परिणामालङ्कारः
Summary AI That Lord of Speech (Brihaspati), though possessing only two eyes, had an eye of wisdom superior to Indra's thousand eyes. With folded hands, he spoke thus to the lotus-seated Brahma.
सारांश AI दो नेत्रों वाले उन बृहस्पति ने इन्द्र के हजार नेत्रों की अपेक्षा अधिक प्रभावशाली वाणी में हाथ जोड़कर ब्रह्मा जी से यह कहा।
पदच्छेदः AI
सःतद् (१.१) he
द्विनेत्रःद्विनेत्र (१.१) having two eyes
हरेःहरि (६.१) than Indra's
चक्षुःचक्षुस् (१.१) eye (of knowledge)
सहस्रनयनाधिकम्सहस्रनयनअधिकम् (२.१) more than a thousand eyes
वाचस्पतिःवाचस्पति (१.१) Brihaspati (Lord of Speech)
उवाचउवाच (√वच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) spoke
इदम्इदम् (२.१) this
प्राञ्जलिःप्राञ्जलि (१.१) with folded hands
जलजासनम्जलजआसन (२.१) to the one seated on a lotus (Brahma)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्वि ने त्रो रे श्च क्षुः
स्र ना धि कम्
वा स्प ति रु वा चे दं
प्रा ञ्ज लि र्ज जा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.