किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥

अन्वयः AI किम् च, प्रचेतसः पाणौ अयम् अरि-दुर्वारः पाशः मन्त्रेण हत-वीर्यस्य फणिनः दैन्यम् आश्रितः (इव अस्ति) ।
सञ्जीविनीटीका (मल्लिनाथः) किं चेति ॥ किं चायमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । `प्रचेता वरुणः पाशी` इत्यमरः (अमरकोशः १.१.७३ ) । पाणौ पाशो रज्जुरायुधविशेषः । मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः । फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः । अत्र फणिनिष्ठदैन्यस्य पाशेऽसम्भवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः
Summary AI "And why has this noose of Varuna, usually irresistible to enemies, taken on the pitiable state of a serpent whose power has been destroyed by a spell?" Brahma observes that Varuna's weapon is also powerless.
सारांश AI वरुण का वह पाश, जो शत्रुओं के लिए अजेय था, अब मन्त्र से शक्तिहीन किए गए सर्प की तरह दीनता को प्राप्त हो गया है।
पदच्छेदः AI
किम्किम् why
and
अयम्इदम् (१.१) this
अरिदुर्वारःअरिदुर्वार (१.१) irresistible to enemies
पाणौपाणि (७.१) in the hand
पाशःपाश (१.१) noose
प्रचेतसःप्रचेतस् (६.१) of Varuna
मन्त्रेणमन्त्र (३.१) by a spell
हतवीर्यस्यहतवीर्य (६.१) whose power is destroyed
फणिनःफणिन् (६.१) of a serpent
दैन्यम्दैन्य (२.१) the pitiable state
आश्रितःआश्रित (आ√श्रि+क्त, १.१) has resorted to
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
किं चा रि दु र्वा रः
पा णौ पा शः प्र चे सः
न्त्रे वी र्य स्य
णि नो दै न्य मा श्रि तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.