Loading data... On slow networks this could take a few minutes.
100%

पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता ।
प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥

अन्वयः AI पुराणस्य कवेः तस्य चतुर्मुख-समीरिता शब्दानाम् चतुष्टयी प्रवृत्तिः चरितार्था आसीत् ।
सञ्जीविनीटीका (मल्लिनाथः) पुराणस्येति ॥ द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयो चतुर्विधा । `संख्याया अवयवे तयप्` (अष्टाध्यायी ५.२.४२ ) इति तयप् । `टिङ्ढाणञ्द्वयसच्-` इत्यादिना ङीप् । शब्दानां प्रवृत्तिर्वैखरीप्रमुखा वाग्वृत्तिः । उक्तं च- `वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥` इति । पुराणास्य पुरातनस्य । पृषोदरादित्वात्साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । `तद्धितार्थ-` इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः
Summary AI The fourfold flow of words, uttered by that ancient seer with four faces (Brahma), was perfectly meaningful and fulfilled its purpose. This verse praises the quality of Brahma's speech.
सारांश AI उन पुरातन कवि ब्रह्मा के चारों मुखों से निकले हुए शब्द सार्थक हुए और उनकी वाणी की चारों वृत्तियाँ सफल हो गईं।
पदच्छेदः AI
पुराणस्यपुराण (६.१) of the ancient
कवेःकवि (६.१) of the poet/seer
तस्यतद् (६.१) his
चतुर्मुखसमीरिताचतुर्मुख–समीरिता (सम्√ईर्+क्त, १.१) uttered by the four-faced one
प्रवृत्तिःप्रवृत्ति (प्र√वृत्, १.१) the flow/usage
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
शब्दानाम्शब्द (६.३) of words
चरितार्थाचरितअर्थ (१.१) fulfilled in its purpose
चतुष्टयीचतुष्टयी (१.१) fourfold
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पु रा स्य वे स्त स्य
तु र्मु मी रि ता
प्र वृ त्ति रा सी च्छ ब्दा नां
रि ता र्था तु ष्ट यी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.